०२

अभि त्वा देव सवितर् इति त्रयोदश होता यक्षद् अग्निं समिधा सुषमिधा समिद्धं नाभा पृथिव्याः सङ्गथे वामस्य वर्ष्मन् दिव इडस् पदे वेत्व् आज्यस्य होतर् यज होता यक्षत् तनूनपातम् अदितेर् गर्भं भुवनस्य गोपां मध्वाद्य देवो देवेभ्यो देवयानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज होता यक्षन् नराशंसं नृशस्तं नॄंष्प्रणेत्रं गोभिर् वपावान्त् स्याद् वीरैः शक्तीवान् रथैः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज होता यक्षद् अग्निम् इड ईडितो देवो देवं आ च वक्षद् दूतो हव्यवाड् अमूरा उपेमं यज्ञम् उपेमां देवो देवहूतिम् अवतु वेत्व् आज्यस्य होतर् यज होता यक्षद् बर्हिः सुष्टरीमोर्णम्रदा अस्मिन् यज्ञे वि च प्र च प्रथतां स्वासस्थं देवेभ्य एम् एनद् अद्य वसवो रुद्रा आदित्याः स्वदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज होता यक्षद् दुर ऋष्वाः कवष्यो कोशधावनीर् उद् आताभिर् जिहतां वि पक्षोभिः श्रयन्तां सुप्रायणा अस्मिन् यज्ञे विश्रयन्ताम् ऋतावृधो व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् उषासानक्ता बृहती सुपेशसा नॄंष् पतिभ्यो योनिं कृण्वाने संस्मयमाने इन्द्रेण देवैर् एदं बर्हिः सीदतां वीताम् आज्यस्य होतर् यज होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा स्विष्टम् अद्यान्यः करद् इषा स्वभिगूर्तम् अन्य ऊर्जा सतवसेमं यज्ञं दिवि देवेषु धत्तां वीताम् आज्यस्य होतर् यज होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमो ऽछिद्रम् अद्येदम् अपस् तन्वतां देवेभ्यो देवीर् देवम् अपो व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् त्वष्टारम् अचिष्टुम् अपाकं रेतोधां विश्रवसं यशोधां पुरुरूपम् अकामकर्शनं सुपोषः पोषैः स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारं शशमन् नरः स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज ॥म्स्_४,१३।२॥
देवहूतिम् : फ़्न् एमेन्देद्। एद्।: देवहतिम्।

समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश् चकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥

तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व ।
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥

नराशंसस्य महिमानम् एषाम् उपस्तोषाम यजतस्य यज्ञैः ।
ये सुक्रतवः शुचयो धियन्धाः स्वदन्तु देवा उभयानि हव्या ॥

आजुह्वाना ईड्यो वन्द्यश् चायाह्य् अग्ने वसुभिः सजोषाः ।
त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥

प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् ।
व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥

व्यचस्वतीर् उर्विया विश्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥

आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥

दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥

आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती ।
तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ॥

य इमे द्यावापृथिवी जन्त्री रूपैर् अपिंशद् भुवनानि विश्वा ।
तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥

उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।