इमानि त उदिता शन्तमानि तेभिर् वयं सुभगासः स्याम ॥म्स्_४,१२।६॥
प्र देवं देव्या धियेत्य् अष्टौ ॥
अञ्जन्ति त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर् अस्या उपस्थे ॥
उञ्श्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि ।
सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥
अधि : फ़्न् एमेन्देद्। एद्।: अधि।
समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् ।
आरे अस्मद् अमतिं बाधमाना उञ्श्रयस्व महते सौभगाय ॥
ऊर्ध्व ऊ षु ण ऊतये ॥
ऊर्ध्वो नः पाह्य् अंहसो नि केतुना विश्वं सम् अत्रिणं दह ।
कृधी न ऊर्ध्वाञ् चरथाय जीवसे विदा देवेषु नो दुवः ॥
जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
पुनन्ति धीरा अपसो मनीषा देवया विप्रा उदियर्ति वाचम् ॥
युवा सुवासाः परिवीता आगात् स उ श्रेयान् भवति जायमानः ।