०५

बोधात् स्तोमैर् वयो दधत् ॥म्स्_४,१२।५॥

अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥

प्र वा एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास ।
आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट ॥

आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।
येषाम् इन्द्रो युवा सखा ॥

याभ्यां स्वर् अजनन्न् अग्र एव या आतस्थतुर् भुवनानि विश्वा ।
प्र चर्षणी वृषणा वज्रबाहुम् अग्निम् इन्द्रं वृत्रहणं हुवेम ॥

अग्ना इन्द्रश् च दाशुषो दुरोणे सुतावतो यज्ञम् इहोपयातम् ।
अमर्धन्ता सोमपेयाय देवा ॥

अन्व् अद्य नो अनुमतिर् अन्व् इद् अनुमते त्वम् ॥

राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥

यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि ।
ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥
रराणा : फ़्न् एमेन्देद्। एद्।: रराण। च्फ़्। Ṛव्।२।३२।५।

सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।
जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥

या सुपाणिः स्वङ्गुरिः सुषूमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥

कुहूम् अहं सुकृतं विद्मनापसम् अस्मिन् यज्ञे सुहवां जोहवीमि ।
सा नो ददातु श्रवणं पित्πणां तस्यै ते देवि हविषा विधेम ॥

कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।
स दाशुषे किरतु भूरि वामं रायस्पोषं चिकितुषे दधातु ॥

धाता दधातु नो रयिं प्राचीं जीवातुम् अक्षिताम् ।
वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ॥

धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे ।
तस्मै देवा अमृताः संव्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥

प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् ।
उतान्यो अस्मद् यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥

प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्राद् अररुषः पिबातः ।
प्रातर् हि यज्ञम् अश्विना दधाते प्रशंसन्ति कवयः पूर्वभाजः ॥

इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।
हुवेम वाजसातये ॥

यन् निर्णिजा ॥

त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे ।
कविर् गृहपतिर् युवा ॥

हव्यवाड् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे ।
सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम्मिमीहि श्रवांसि ॥

त्वं च सोम नो वशो जीवातुं न मरामहे ।
प्रियस्तोत्रो वनस्पतिः ॥

ब्रह्मा देवानां पदवीः कवीनां कविर् विप्राणां महिषो मृगाणाम् ।
श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्येति रेभन् ॥

आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे ।
सत्यसवं सवितारम् ॥

आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन् ॥

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥

हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् ।
बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वं अगायत् ॥

त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
इन्द्र ज्यैष्ठ्याय सुक्रतो ॥

भुवस् त्वम् इन्द्र ब्रह्मणो महान् भुवो विश्वेषु सवनेषु यज्ञियः ।
भुवो नॄंश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे ॥

प्र स मित्रानमीवासः ॥
मित्र : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् ।
मिनीमसि द्यविद्यवि ॥

यत् किञ्चेदं वरुण दैव्ये जने ऽभिद्रोहं मनुष्याश् चरामसि ।
अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥

यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे ।
यथा तोकाय रुद्रियम् ॥

मा नस् तोके तनये मा ना आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥

य इमा विश्वा जातान्य् आश्रावयति श्लोकेन ।
प्र च सुवाति सविता ॥

विश्वा रूपाणि ॥

अश्विना यज्ञम् आगतं दाशुषः पुरुदंससा ।
पूषा रक्षतु नो रयिम् ॥

इमं यज्ञम् अश्विना वर्धयन्तेमौ वीर्यं यजमानाय धत्ताम् ।
इमौ पशून् रक्षतां विश्वतो नः पूषा नः पातु सदम् अप्रयुछन् ॥

प्र ते महे सरस्वति सुभगे वाजिनीवति ।
सत्यवाचे भरे मतिम् ॥

इदं ते हव्यं घृतवत् सरस्वति सत्यवाचे प्रयतेमा हवींषि ।