वि पश्येम नृचक्षसः ॥म्स्_४,१२।४॥
युवं सुरामम् अश्विना ॥
होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रं सुराम्णां सोमानां पिबतु मदन्तां व्यन्तु होतर् यज ।
पुत्रम् इव पितरौ ॥
इन्द्रः सुत्रामा स्ववं अवोभिः सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववं इन्द्रो अस्मद् आराच् चिद् द्वेषः सनुतर् युयोतु ॥
अग्ने वाजस्य गोमतः ॥
भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥
संसम् इद् एना वो अग्निम् आ ते अग्ना इधीमह्य् अग्ने त्री ते वाजिना त्री षधस्था ॥
त्रिर् अग्निर् बलभिद् बलं भित्त्वा सहस्रम् ऐरयत् ।
शूरो जेतापराजितः ॥
त्रिर् अह्नः पवते वृषा सोमः शुक्राभिर् ऊतिभिः ।
वाजी सहस्रसातमः ॥
सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे अस्य ।
जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुः ॥
इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ॥
उत माता महिषम् अन्ववेनद् अमी त्वा जहति पुत्र देवाः ।
अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं विक्रमस्व ॥
त्रीण्य् आयूंषि तव जातवेदः ॥
अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म आसन् ।
अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥
विद्मा ते अग्ने त्रेधा त्रयाणि ॥
वृषणं त्वा त्रिककुभं त्रिमूर्धानं त्रिसन्दृशम् ।
वर्ष्मन् पृथिव्या ईमहे अग्ने हव्याय वोढवे ॥
अतिविद्धास्येद् एवा ॥
एवा : फ़्न् पद: । विद्धास्ये । देव ।
पर्जन्याय प्रगायत दिवस् पुत्राय मीढुषे ।
स नो यवसम् इछतु ॥
प्र वाता वान्ति पतयन्ति विद्युता उद् ओषधीर् जिहते पिन्वते स्वः ।
इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥
यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण ।
तं प्रत्नासा ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥
विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् ।
बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत्पतन्ति ।
त आववृत्रन्त् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्युद्यते ॥
आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदम् ।
शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिहः स्तनयन्त्य् अभ्रा ॥
वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति ।
यद् एषां वृष्टिर् असर्जि ॥
पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः ।
यत् क्रीडथ मरुत ऋष्टिमन्ता आप इव सध्र्यञ्चो धवध्वे ॥
सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे ।
ते भानुभिर् वितस्थिरे ॥
बहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म ।
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अन्तः ॥
सूर्यो अपो विगाहते रश्मिभिर् वाजसातमः ।