का ते निषत्तिः किम् उ नो ममत्सि किं नोद् उद् उ हर्षसे दातवा उ ॥म्स्_४,१२।३॥
निषत्तिः : फ़्न् एमेन्देद्। एद्।: निषत्रिः। च्फ़्। Ṛव्।४।२१।९।
इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यछतम् ।
दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
सम्राड् अन्यः स्वराड् अन्य उच्यते वां महान्ता इन्द्रावरुणा महावसू ।
विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सं बलं दधुः ॥
विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिहृताः सनुयाम वाजम् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
एनां मुखेन वायुम् इन्द्रवन्तो ऽचिष्याम वृजने विश्व ऊती ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने ।
अर्हन्तश् चिद् यम् इन्धते सञ्जनयन्ति जन्तवः ॥
सं यद् इषो वनामहे सं हव्या मानुषाणाम् ।
उत द्युम्नस्य शवस ऋतस्य रश्मिम् आददे ॥
यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् ।
वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥
उद् वां पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहञ् शुक्रम् अर्णः ।
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥
उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे ।
अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ॥
सम् अन्या यन्ति ॥
अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः ।
तस्य ज्येष्ठं महिमानं वहन्तीर् हिरण्यवर्णाः परियन्ति यह्वीः ॥
तम् अस्मेरा युवतयो युवानं मर्मृज्यमानाः परियन्त्य् आपः ।
स शुक्रेभिः शिक्वभी रेवद् अग्निर् दीदायानिध्मां घृतनिर्णिग् अप्सु ॥
अग्ना आयूंषि पवसे ॥
आयुर्दा देव जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्न् अमृतं चारु गव्यं पितेव पुत्रं जरसे म एमम् ॥
गयस्फानो अमीवहा ॥
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् ।
गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्रचरा सोम दुर्यान् ॥
सुत्रामानं महीम् ऊ ष्व् इमं मे वरुण तत् त्वा यामि वैश्वानरो न ऊत्या पृष्टो दिव्य् अभि त्वा शूर नोनुमस् त्वाम् इद् धि हवामहे ॥
आपप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
अस्मं अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ॥
बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
इमा ब्रह्म सधमादे जुषस्व ॥
रेवतीर् नः सधमादा इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर् मदेम ॥
प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत ।
अभीके चिद् उलोककृत् सङ्गे समत्सु वृत्रहा ।
अस्माकं बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥
आ नो अग्ने सुचेतुना ॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
विश्वासु पृत्सु दुष्टरम् ॥
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ॥
मदेमदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः ।
सङ्गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आभर ॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ॥
घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् ।
तत् ते रुक्मो न रोचत स्वधावः ॥
ओभे सुश्चन्द्र विश्पते ॥
आर्यमा याति वृषभस् तुराषाड् दाता वसूनि विदधे तनूपाः ।
सहस्राक्षो गोत्रभिद् वज्रबाहुर् अस्मासु देवो द्रविणं दधातु ॥
ये ते ऽर्यमन् बहवो देवयानाः पन्थानो राजन् दिव आचरन्ति ।
तेभिर् नो देव महि शर्म यछ शं नो भव द्विपदे शं चतुष्पदे ॥
उद् अग्ने शुचयस् तवायम् अग्निर् वीरतमस् तत् सूर्यस्य भद्रा अश्वाः सप्त त्वा हरितो रथे तरणिर् विश्वदर्शतः ॥
चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः ।
सं चेदं वि च पश्येम ॥
सुसन्दृशं त्वा वयं प्रति पश्येम सूर्य ।