०२

अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥म्स्_४,१२।२॥

विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः ।
अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥

अंहोमुचे प्रभरेमा मनीषां भूयिष्ठदाव्ने सुमतिम् आवृणानः ।
इदम् इन्द्र प्रति हव्यं जुषस्व सत्याः सन्तु यजमानस्य कामाः ॥

त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् ।
हुवे नु शक्रं पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥

मा ते अस्यां सहसावन् परिष्टा अघाय भूम हरिवः परादैः ।
त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥

अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् ।
करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥

अनु द्यावापृथिवी तत् ता ओजो ऽमर्त्या जिहत इन्द्र देवाः ।
कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥

अभि प्रभर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् ।
अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥

अस्मा इद् उ प्रभरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः ।
गोर् न पर्व विरदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ॥

वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः ।
अधस्पदं तम् ईं कृधि यो अस्मं अभिदासति ॥

मृगो न भीमः कुचरो गिरिष्ठाः परावता आजगन्था परस्याः ।
सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥

आकरे वसोर् जरिता पनस्यते ऽनेहसः स्तुभा इन्द्रो दुवस्यति ।
विवस्वतः सदना आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ॥

त्वं सपत्नान् पृतनासु जिष्णुर् इन्द्राभिषाड् अभिमातीर् अपघ्नन् ।
पिबा सोमं वज्रबाहो विषह्यास्मभ्यं पणींर् अर्वस्व् आमुखाय ॥

पुरुष्टुतस्य नामभिः शतेन महयामसि ।
इन्द्रस्य चर्षणीसहः ॥
पुरुष्टुतस्य : फ़्न् एमेन्देद्। एद् Ṛव्।३।३७।४: पुरुष्टुतस्य।

नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे ।
इन्द्राभिमातिषाह्ये ॥

अर्वावतो ना आगहि परावतश् च वृत्रहन् ।
इमा जुषस्व नो गिरः ॥

यद् अन्तरा परावतम् अर्वावतं च हूयसे ।
इन्द्रेह तता आगहि ॥

एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
वर्षिष्ठम् ऊतये भर ॥

प्रससाहिषे पुरुहूत शत्रून् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु ।
इन्द्राभर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥

इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः ।
शूरो नृषाता श्रवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥

हृदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।
त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ॥

अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः ।
इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधींर् इव त्रितः ॥

तम् इन्द्रं वाजयामसि युजे रथम् ॥

वृत्रतुरं मघवानं शचीपतिम् इन्द्रं गिरो बृहतीर् अभ्यनूषत ।
वावृधानं पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवेदिवे ॥
वृत्रतुरं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद् (व्च्): वृत्रतरम्।

अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता वधेन ।
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥
वृत्रतरं : फ़्न् एमेन्देद्। एद्।: वृन्त्रतरम्।

अभितिष्ठ पृतन्यतो ऽधरे सन्तु शत्रवः ।
इन्द्र इव दस्युहा भवापः क्षेत्राणि सञ्जय ॥

आशीर् ना ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणं सवर्चसम् ।
सञ्जयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्यं अधरान्त् सपत्नान् ॥

त्वम् इन्द्रास्य् अधिराजः ॥

इन्द्रो जयति न पराजयते अधिराजो राजसु राजयते ।
विश्वा अभिष्टिः पृतना जयत्य् उपसद्यो नमस्यो यथासत् ॥

आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः ।
पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् विचारीत् ॥

यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनासा इन्द्रः ॥

मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो विश्ववेदाः ।
मन्युं विश ईडते मानुषीर् या अवा नो मन्यो तपसा सजोषाः ॥

त्वं हि मन्यो अभिभूत्योजाः स्वयञ्जो भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहावान्त् स हूयमानो अमृताय गछत् ॥

इडाम् अग्ने त्वं नो अग्ने किम् इत् ते विष्णो प्र तत् ते अद्य ॥

दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयछसि ।
यजमानाय सुन्वते ॥

भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र ।