०६

वर्धा नो अमवञ् शवः ॥म्स्_४,११।६॥

इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती ।
उक्थं मदश् च शस्यते ॥

अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् ।
अश्वावन्तं अस्हस्रिणम् ॥

एह्य् उ षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः ।
एभिर् वर्धासा इन्दुभिः ॥
ऽग्न : फ़्न् एमेन्देद्। एद्।: ग्ने

इमं यज्ञम् इदं वचः ॥

त्यान् नु क्षत्रियं अव आदित्यान् याचिषामहे ।
सुमृडीकं अभिष्टये ॥

येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर् अद्रिबर्हाः ।
उक्थशुष्मान् वृषभरान्त् स्वप्नसस् तं आदित्यं अनुमदात् स्वस्तये ॥

धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः ।
दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि ॥

त्री रोचना दिव्या धारयन्त हिरण्यया शुचयो धारपूताः ।
अवृजिना अनवद्या अदब्धा उरुशंसा ऋजवे मर्त्याय ॥

तत् सूर्यस्य भद्रा अश्वा हिरण्यगर्भो यः प्राणतः ॥

बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि ॥

यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म ।
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसाम् ॥

बृहस्पतिं हवामहे विश्वतः सगणं वयम् ।
उप नो यज्ञम् आगमत् ॥

स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उदाजत् ॥

ब्रह्मणस्पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥

ब्रह्मणस्पते सूयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः ।
वीरेषु वीरं उपपृङ्धि नस् त्वं यद् ईशानो ब्रह्मणा वेषि मे हवम् ॥

उत्तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे ।
उप प्रयन्तु मरुतः सुदानवा इन्द्र प्राशुर् भवा सचा ॥

अग्निर् उक्थे पुरोहितो ग्रावाणो बर्हिर् अध्वरे ।
ऋचा यामि मरुतो ब्रह्मणस्पतिं देवं अवो वरेण्यम् ॥

नमस् ते रुद्र मन्यव इमा रुद्राय ॥

को अद्धा वेद क इह प्रवोचत् कुता आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥

इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्त् सो अङ्ग वेद यदि वा न वेद ॥

इदं विष्णुर् विचक्रमे ॥

तद् अस्य प्रियम् अभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्वा उत्सः ॥

विश्वे देवा ऋतावृधः ॥

विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥

इन्द्राणी पत्या सुजितं जिगाय सेना ह नाम पृथिवी धनञ्जया विश्वव्यचा अदितिः सूर्यत्वक् ।
इन्द्राणी प्रासहा सञ्जयन्ती तस्यै त एना हविषा विधेम ॥

उपप्रेहि वाचस्पते देवेन मनसा सह ।
वसुपते विरमय मय्य् एव तन्वं मम ॥

ये त्रिसप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।