त्वं नः सोम विश्वतः ॥म्स्_४,११।५॥
युक्ष्वा हि देवहूतमान् ॥
उत नो देव देवं अछा वोचो विदुष्टरः ।
श्रद् विश्वा वार्या कृधि ॥
त्वं ह यद् यविष्ठ्य सहसः सून आहुत ।
ऋतावा यज्ञियो भुवः ॥
अयम् अग्निः सहस्रिणः ॥
तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः ।
नेदीयो यज्ञम् अङ्गिरः ॥
तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया ।
वृष्णे चोदस्व सुष्टुतिम् ॥
कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः ।
पणिं गोषु स्तरामहे ॥
मा नो देवानां विशः प्रस्नातीर् इवोस्राः ।
कृशं न हासुर् अघ्न्याः ॥
मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।
ऊर्मिर् न नावम् आवधीत् ॥
नमस् ते अग्ना ओजसे गृणन्ति देव कृष्टयः ।
अमैर् अमित्रम् अर्दय ॥
इमं यज्ञम् इदं वचो जुजुषाण उपागहि ।
सोम त्वं नो वृधे भव ॥
कुवित् सु नो गैष्टये ऽग्ने संवेषिषो रयिम् ।
उरुकृद् उरु णस् कृधि ॥
मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा ।
संवर्गं सं रयिं जय ॥
यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा ।
तं हेद् अग्निर् विधावति ॥
अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुछुना ।