आ ते यतन्ते रथ्यो यथा पृथक् शर्धांस्य् अग्ने अजराणि धक्षतः ॥म्स्_४,११।४॥
कृणुष्व पाजा इति पञ्च ॥
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् ।
विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभिद्यौत् ॥
सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः ।
पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥
अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः ।
स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥
इह त्वा भूर्य् आचरेद् उप त्मन् दोषावस्तर् दीदिवांसम् अनु द्यून् ।
क्रीडन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥
यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥
महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्वियाय ।
त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥
अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः ।
ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् ।
ररक्ष तान्त् सुकृतो विश्ववेदा दिप्सन्ता इद् रिपवो नाह देभुः ॥
त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् ।
उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥
अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय ।
दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥
अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः ।
शुचिः पावक ईड्यः ॥