एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥म्स्_४,११।३॥
इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः ।
अस्माकम् अस्तु केवलः ॥
आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् ।
आ विश्वतो अभि समेत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥
मरुतो यद् ध वो दिवो या वः शर्म ॥
आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आगहि ।
महान् महीभिर् ऊतिभिः ॥
त्वं महं इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।
त्वं वृत्रं शवसा जघन्वान्त् सृजः सिन्धूंर् अहिना जग्रसानान् ॥
मरुतो यद् ध वो बलं जनं अचुच्यवीतन ।
गिरींर् अचुच्यवीतन ॥
ऋष्टयो वो मरुतो अंसयोर् अधि सहा ओजो बाह्वोर् वो बलं हितम् ।
नृम्णा शीर्षस्व् आयुधा रथेषु नो विश्वा वः श्रीर् अधि तनूषु पिपिशे ॥
पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥
समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसम् ॥
अग्ने नया देवानां त्वम् अग्ने व्रतपा असि यद् वो वयम् ॥
त्वम् अग्ने व्रतभृञ् शुचिर् अग्ने देवं इहावह ।
उप यज्ञं हविश् च नः ॥
व्रता नु बिभ्रद् व्रतपा अदब्धो यजानो देवो अजरः सुवीरः ।
दधद् रत्नानि सुमृडीको अग्ने गोपाय नो जीवसे जातवेदः ॥
श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आभर ।
वसो पुरुस्पृहं रयिम् ॥
तुभ्यं भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तिता ओत दूरात् ।
आ भन्दिष्ठस्य सुमतिं चिकिद्धि महत् ते अग्ने महि शर्म भद्रम् ॥
त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् ।
स नो रास्व सुवीर्यम् ॥
अयं नो अग्निर् अनीकैर् द्वेषो अर्दय सैनानीकेनेदं विष्णुः प्र तद् विष्णुः ॥
आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥
कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभंये ।
परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ॥
उक्षान्नाय वशान्नाय ॥
वातोपधूत इषितो वशं अनु त्रिषु यद् अन्ना वेविषद् वितिष्ठसे ।