ते क्रीडयो धुनयो भ्राजदृष्ट्यः स्वयं महित्वं पनयन्त धूतयः ॥म्स्_४,११।२॥
कया शुभा सवयसः सनीडाः समान्या मरुतः सम्मिमिक्षुः ।
कया मती कुता एतास एते ऽर्चन्ति शुष्मं वृषणो वसूया ॥
कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुता आववर्त ।
श्येनं इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥
कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था ।
सम्पृछसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते अस्मे ॥
ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
आशासते प्रतिहर्यन्त्य् उक्थेमा हरी वहतस् ता नो अछ ॥
अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्वः शुम्भमानाः ।
महोभिर् एकम् उपयुज्महे न्व् इन्द्रः स्वधाम् अनु हि नो बभूथ ॥
क्व स्या वो मरुतः स्वधासीद् यन् माम् एकं समधत्ताहिहत्ये ।
अहं ह्य् उग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं वधस्नैः ॥
भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौंस्येभिः ।
भूरीणि हि कृणवामा शविष्ठेन्द्रः कृत्वा मरुतो यद् वशाम ॥
वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः ॥
अनुत्तम् आ ते मघवन् नकिर् णु न त्वावं अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥
एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा ॥
अहं ह्य् उग्रो मरुतो विदानो यानि च्यवम् इन्द्रा इद् ईश एषाम् ॥
अमन्दन् मा मरुतः स्तोमो अत्र यन् मे नरः श्रुत्यं ब्रह्म चक्र ।
इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे तनूभिः ॥
एवेद् एते प्रति मा रोचमाना अनेद्यः श्रवा एषो दधानाः ।
सञ्चक्ष्या मरुतश् चन्द्रवर्णा अछान्त मे छदयाथा च नूनम् ॥
को न्व् अत्र मरुतो मामहे वः प्रयातन सखींर् अछा सखायः ।
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥
आ यद् दुवस्याद् दुवसे न कारुर् अस्मांश् चक्रे मान्यस्य मेधा ।
ओ षू वर्त मरुतो विप्रम् अछेमा ब्रह्माणि जरिता वो अर्चत् ॥
एष वः स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।