०१

द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥म्स्_४,११।१॥

पृथुपाजास् तं सबाधः ॥

ईडे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।
श्रुष्टीवानं धितावानम् ॥

अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
अति द्वेषांसि तरेम ॥

उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत ।
अग्ने संसृज्महे गिरः ॥

उप छायाम् इव घृणेर् अगन्म शर्म ते वयम् ।
अग्ने हिरण्यसन्दृशः ॥

अग्निर् वृत्राणि जङ्घनत् त्वं सोमासि सत्पतिर् अग्नीषोमा युवम् एतानि श्रीणाम् उदारः ॥

सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे यजध्यै ।
देवं अछा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥

सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥

इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा ।
आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥

उत नो ब्रह्मन् हविष उक्थेषु देवहूतमः ।
शं नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः ॥

नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु ।
द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ॥

त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः ।
अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि ॥

ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः ।
अयं यः सोमो न्यधाय्य् अस्मे तस्मा इन्द्रं प्रतिरम् एम्य् आयुः ॥

त्वं नो अग्ने स त्वं नो अग्ने ऽग्निं वः पूर्व्यं गिरा ॥

मक्षू देववतो रथः शूरो वा पृत्सु कासुचित् ।
देवानां य इन् मनो यजमाना इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

नकिष् टं कर्मणा नशन् न प्रयोषन् न योषति ।
देवानां य इन् मनो यजमाना इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् ।
देवानां य इन् मनो यजमाना इयक्षत्य् अभीद् अयज्वनो भुवत् ॥

उपक्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उपयन्ति विश्वतः ॥

सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् ।
अवस्यतं मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥

सोमारुद्रा धारयेथाम् असुर्यं प्र वाम् इष्टयो ऽरम् अश्नुवन्तु ।
दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥

सोमारुद्रा विवृहतं विषूचीम् अमीवा या नो गयम् आविवेश ।
आरे बाधेथां निरृतिं पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ॥

तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्रा इह सु मृडतं नः ।
मुमुक्तम् अस्मान् ग्रसितान् अभीके प्रयछतं वृषणा शन्तमानि ॥

अग्नाविष्णू सजोषसाग्नाविष्णू महि धाम प्रियं वाम् ॥

अग्नाविष्णू महि तद् वां महित्वं वीथो घृतस्य गुह्या जुषाणा ।
दमेदमे सुष्टुती वावृधाना नु वां जिह्वा घृतम् आचरण्यत् ॥

पावका नः सरस्वती ॥

सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा ना आधक् ।
जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरण्यानि गन्म ॥

आ नो दिवः ॥

बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
रास्व रत्नानि दाशुषे ॥

एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः ।
बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥

आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् ।
मध्वा रजांसि सुक्रतू ॥

प्र बाहवा सिसृतं जीवसे ना आ नो गव्यूतिम् उक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥

और्वभृगुवञ् शुचिम् अप्नवानवद् आहुवे ।
अग्निं समुद्रवाससम् ॥

आ सवं सवितुर् यथा भगस्येव भुजिं हुवे ।
अग्निं समुद्रवाससम् ॥

हुवे वातस्वनं कविं पर्जन्यक्रद्यं सहः ।
अग्निं समुद्रवाससम् ॥

वृषा सोम द्युमं असि ॥

आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् अर्णवम् ।
मरुद्भिर् अग्ना आगहि ॥

आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति ।
अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥

यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे ।
विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ॥

अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध ।
अस्मात् समुद्राद् बृहतो दिवो नो ऽपां भूमानम् उप नः सृजेह ॥

प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानः ॥

श्रियसे कं भानुभिः सम्मिमिक्षिरे ते रश्म्मिभिस् त ऋक्वभिः सुखादयः ।
ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥

मरुतो यद् ध वो दिवः ॥

प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे ।