विश्वम् आभासि रोचनम् ॥म्स्_४,१०।६॥
इन्द्राग्नी रोचना दिवः प्र चर्षणिभ्य इन्द्राग्नी नवतिं पुरः श्नथद् वृत्रम् ॥
जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उपयाहि विद्वान् ।
विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आभरा भोजनानि ॥
अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यं सुयमम् आकृणुष्व शत्रूयताम् अभितिष्ठा महांसि ॥
प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इषा आवृणे ॥
उपो ह यद् विदथं वाजिनो गुर् धीभिर् विप्राः प्रमतिम् इछमानाः ।
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते ॥
अग्निर् ददाति सत्पतिं सासाह यो युधा नृभिः ।
अग्निर् अत्यं रघुष्यदं जेतारम् अपराजितम् ॥
अग्निस् तुविश्रवस्तमं तुविब्रह्माणम् उत्तमम् ।
अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
इन्द्राग्नी ताभिर् आगतम् ॥
शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥
पूषा गा अन्वेतु नः शुक्रं ते अन्यत् ॥
क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
गाम् अश्वं पोषयित्न्व् आ स नो मृडातीदृशे ॥
मधुमतीर् ओषधीर् द्यावा आपो मधुमन् नो भवत्व् अन्तरिक्षम् ।
क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं चरेम ॥
संसम् इत् ॥
सखायः सं वः सम्यञ्चम् इषं स्तोमं चाग्नये ।
वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ॥
वैश्वानरो न ऊत्या पृष्टो दिवि ॥
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् ।
अजस्रं घर्मम् ईमहे ॥
वैश्वानर तव धामान्य् आचके येभिः स्वर्विद् अभवो विचक्षण ।
जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि त्मना ॥
इडाम् अग्ने ॥
त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
शकेम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं नः ॥
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः ।
इतो जातो विश्वम् इदं विचष्टे वैश्वानरो यतते सूर्येण ॥
अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरं सुवीरम् ।
वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजम् अग्ने तवोतिभिः ॥
विश्वं विव्याच पृथिवीव पुष्टम् अन्यम् अन्यत् प्रतिगृभ्णात्य् आयत् ।
वैश्वानरस्य महतो महिम्ना स्योनम् अन्नं मधुमन् मे कृणोमि ॥
स जायमानः परमे व्योमनि व्रतान्य् अग्निर् व्रतपा अरक्षत ।
व्य् अन्तरिक्षम् अमिमीत सुक्रतुर् वैश्वानरो महिना नाकम् अस्पृशत् ॥
यथा ह त्यत् ॥
त्रीण्य् आयूंषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने ।
ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शं योः ॥
न्य् अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् ।
दधाता देवम् ऋत्विजम् ॥
इडायास् त्वा पदे वयं दधिक्राव्णो अकारिषम् ॥
दधिक्रावाणं बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गाम् ।
ब्रध्नं मंश्चतोर् वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु ॥
अग्निर् होता न्यसीदद् यजीयान् उपस्थे मातुः सुरभा उलोके ।
युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥
साध्वीम् अकर् देववीतिं नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्यम् ।
स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥
यच् चिद् धि ते ॥
महश् चिद् अग्ना एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् ।
मा ते सखायः सदम् इद् रिषाम यछा तोकाय तनयाय शं योः ॥
मही द्यौः पृथिवी च नः ॥
घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।