०५

विश्वकर्मन् वाचस्पतिम् ॥म्स्_४,१०।५॥

उशन्तस् त्वा हवामहे ॥

आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
मार्डीकं धेहि जीवसे ॥

त्वं सोम महे भगं त्वं यून ऋतायते ।
दक्षं दधासि जीवसे ॥

त्वं सोम प्रचिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् ।
तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥

त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
वन्वन्न् अवातः परिधींर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥

त्वं सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आततन्थ ।
तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥

बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् ।
त आगतावसा शन्तमेनाथा नः शं योर् अरपो दधातन ॥

उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त आगमन्तु त इह श्रुवन्त्व् अधिब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥

आहं पितॄन्त् सुविदत्रं अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदः स्वधया ये सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥

इदं पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः ।
ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥

उदीरताम् अवरा उत् परासा उन् मध्यमाः पितरः सोम्यासः ।
असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥

अग्निष्वात्ता ऋतावृधः पितरो मृडता सु नः ।
दीर्घायुत्वाय जीवसे ॥

अग्निष्वात्तान् ऋतुमतो हवामहे नराशंसे सोमपीथं य आशुः ।
ते नो विप्रासः सुहवा मृडन्तु शं नो भवन्तु द्विपदे शं चतुष्पदे ॥

अग्निष्वात्ताः पितरा एह गछत सदःसदः सदत सुप्रणीतयः ।
अत्ता हवींषि प्रयतानि बर्हिष्य् अथा रयिं सर्ववीरं दधातन ॥

स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बड् अधत्त विश्वा ।
आपश् च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदाम् ॥

स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम् ।
विवस्वता चक्षसा द्याम् अपश् च देवा अग्निं धारयन् द्रविणोदाम् ॥
स : फ़्न् एमेन्देद्। एद्।: स।

ये तातृषुर् देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।
आग्ने याहि सुविदत्रेभिर् अर्वाक् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥

प्र वायुम् अछा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥

प्र याभिर् यासि दाश्वांसम् अछा नियुद्भिर् वाय इष्टये दुरोणे ।
नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥

इन्द्रं वयं शुनासीरम् अस्मिन् यज्ञे हवामहे ।
स नः पर्षद् अति द्विषः ॥

सो ऽहोरात्रैः सो ऽर्धमासैः स मासैः स ऋतुभिः परि यज्ञं बभूव ।
संवत्सरस्य महिमानम् एतं शुनासीरम् इन्द्रम् अद्याहुवेम ॥

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिःकेशं पुरुप्रिय ॥

तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।