वाजेवाजे शं नो भवन्तु ॥म्स्_४,१०।३॥
प्र देवं देव्या धिया भरता जातवेदसम् ।
हव्या नो वक्षद् आनुषक् ॥
अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते ।
रथो न योर् अभीवृतो घृणीवाञ् चेतति त्मना ॥
अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः ।
सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥
इडायास् त्वा पदे वयम् ॥
अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तं प्रथमः सीद योनिम् ।
कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥
सीद होतर् नि होता ॥
त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्या आ वृषभ प्रणेता ।
अग्ने तोकस्य नस् तने तनूनाम् अप्रयुछन् दीद्यद् बोधि गोपाः ॥
अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे ।
यशसं वीरवत्तमम् ॥
गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः ।
सुमित्रः सोम नो भव ॥
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
तद् वां चेति प्र वीर्यम् ॥
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च ।
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥
मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे ।
आ तू ना उपगन्तन ॥
या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यछताधि ।
अस्मभ्यं तानि मरुतो वियन्त रयिं नो धत्त वृषणः सुवीरम् ॥
इमं मे वरुण तत् त्वा यामि कया नः को अद्य पिप्रीहि देवान् अग्ने यद् अद्याप्स्व् अग्ने सधिष् टव ॥
अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा ।
आपश् च विश्वशम्भुवः ॥
उद् उत्तमं वरुण पाशम् अस्मत् ॥
अव ते हेडो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः ।
क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्य् अस्मत् ॥
स त्वं नो अग्ने ऽअवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।