हव्या देवेषु नो दधत् ॥म्स्_४,१०।२॥
अभि त्वा देव सवितर् ईशानं वार्याणाम् ।
सदावन् भागम् ईमहे ॥
मही द्यौः पृथिवी च नस् त्वाम् अग्ने पुष्कराद् अधि तम् उ त्वा दध्यङ्ङ् ऋषिस् तम् उ त्वा पाथ्यो वृषा ॥
उत ब्रुवन्तु जन्तवा उद् अग्निर् वृत्रहाजनि ।
धनञ्जयो रणेरणे ॥
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।
विशाम् अग्निं स्वध्वरम् ॥
प्र देवं देववीतये भरता वसुवित्तमम् ।
आ स्वे योनौ निषीदतु ॥
आ जातं जातवेदसि प्रियं शिशीतातिथिम् ।
स्योन आ गृहपतिम् ॥
अग्निनाग्निस् त्वं ह्य् अग्ने अग्निना ॥
तं मर्जयन्त सुक्रतुं पुरोयावानम् आजिषु ।
स्वेषु क्षयेषु वाजिनम् ॥
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।
ते ह नाकं मिहिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
समिधो अग्ना आज्यस्य व्यन्तु तनूनपाद् अग्ना आज्यस्य वेत्व् इडो अग्ना आज्यस्य व्यन्तु बर्हिर् अग्ना आज्यस्य वेतु दुरो अग्ना आज्यस्य व्यन्तूषासानक्ताग्ना आज्यस्य वीतां दैव्या होताराग्ना आज्यस्य वीतां तिस्रो देवीर् अग्ना आज्यस्य व्यन्तु स्वाहाग्निं स्वाहा सोमं स्वाहाग्निं स्वाहाग्निं होत्रात् स्वाहा देवा आज्यपा जुषाणा अग्ना आज्यस्य व्यन्तु ॥
अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि ।
स इद् देवेषु गछति ॥
त्वं नः सोम विश्वतो ऽग्निर् मूर्धा भुवो यज्ञस्य ॥
सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे ।
ताभिर् नो ऽविता भव ॥
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु ।
तेभिर् नो विश्वैः सुमना अहेडन् राजन्त् सोम प्रति हव्या गृभाय ॥
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पुरुषत्वता ।
देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥
पावका नः सरस्वत्य् आ नो दिवः ॥
पूषा गा अन्वेतु नः पूषा रक्षत्व् अर्वतः ।
पूषा वाजं सनोतु नः ॥
शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर् इवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥
इहेह वः स्वतवसः कवयः सूर्यत्वचः ।
यज्ञं मरुता आवृणे ॥
प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् ।
ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥
विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः ।
जुषन्तां युज्यं पयः ॥
विश्वे देवासो अस्रिधा एहिमायासो अद्रुहः ।
मेधं जुषन्त वह्नयः ॥
द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् ।
यज्ञं देवेषु यछताम् ॥
प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य ।
आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥
स हव्यवाड् अग्निं स्तोमेन ॥
देवं बर्हिर् वसुवने वसुधेयस्य वेतु देवीर् द्वारो वसुवने वसुधेयस्य व्यन्तु देवी उषासानक्ता वसुवने वसुधेयस्य वीतां देवी जोष्ट्री वसुवने वसुधेयस्य वीतां देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां देवीस् तिस्रस् तिस्रो देवीर् वसुवने वसुधेयस्य व्यन्तु देवो नराशंसो वसुवने वसुधेयस्य वेतु देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुर् आयजीयान् अग्ने यान् देवान् अयाड् यं अपिप्रेर् ये ते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञम् एरयेमं स्विष्टकृच् चाग्ने होताभूर् वसुवने वसुधेयस्य नमोवाके वीहि ॥