युवं सिन्धूंर् अभिशस्तेर् अवद्याद् अग्नीषोमा अमुञ्चतं गृभीतान् ॥म्स्_४,१०।१॥
अग्ना आयाहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
अस्य यज्ञस्य सुक्रतुम् ॥
अग्निनाग्निः समिध्यते कविर् गृहपतिर् युवा ।
हव्यवाड् जुह्वास्यः ॥
अग्निर् वृत्राणि जङ्घनद् अग्निं स्तोमेन बोधयाग्ना आयूंषि पवसे ऽग्ने तम् अद्य आभिष् टे अद्य ॥
एभिर् नो अर्कैर् भवा नो अर्वाङ् स्वर् ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥
ज्योतिः : फ़्न् पद: स्वर् । न । ज्योतिः। एद्।: स्वर्णज्योतिः
अधा ह्य् अग्ने ॥
अग्नेः स्तोमं मनामहे सिध्रम् अद्य दिविस्पृशः ।
देवस्य द्रविणस्यवः ॥
अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।
भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ॥
त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
त्वया यज्ञं वितन्वते ॥
वृषा सोम द्युमं असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दधिषे ॥
अग्निर् जातो अरोचत घ्नन् दस्यून् ज्योतिषा तमः ।
अविन्दद् गा अपः स्वः ॥
अग्रे बृहन् ॥
अग्रे : फ़्न् एमेन्देद्। एद्।: अग्ने। च्फ़्। २।७।८:८५।१४
इमं मे वरुण श्रुधी हवम् अद्या च मृडय ।
त्वाम् अवस्युर् आचके ॥
श्रुधी : फ़्न् पद: श्रुधि
तत् त्वा याम्य् अग्निनाग्निः ॥
त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता ।
सखा सख्या समिध्यसे ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन ।
न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न दूरात् ॥
अनमीवासा ईडया मदन्तो मितज्ञवो वरिमन्न् आ पृथिव्याः ।
आदित्यस्य व्रतम् उपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥
अनमीवासा : फ़्न् एमेन्देद्। एद्।: अनमीमासा। च्फ़्। ४।१२।६:१९७।८
तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततं सञ्जभार ।
यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥
सञ्जभार : फ़्न् एमेन्देद्। एद्।: सजभार।
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥
त्वम् अग्ने व्रतपा असि ॥
यद् वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष् टद् विश्वम् आपृणाति विद्वान् येभिर् देवं ऋतुभिः कल्पयाति ॥
अग्ने नय ॥
आ देवानाम् अपि पन्थाम् अगन्म यञ् शक्नवाम तद् अनु प्रवोढुम् ।
अग्निर् विद्वान्त् स यजात् सेद् उ होता सो अध्वरान्त् स ऋतून् कल्पयाति ॥
अग्निः शुचिव्रततम उद् अग्ने शुचयस् तवाक्रन्दद् अग्निर् नक्तोषासा ॥
आयाहि तपसा जनिष्वाग्ने पावको अर्चिषा ।
उपेमां सुष्टुतिं मम ॥
आ नो याहि तपसा जनिष्वाग्ने पावक दीद्यत् ।