ब्रह्मण उपस्तरणम् असि ब्रह्मणे त्वोपस्तृणामि ॥म्स्_४,९।२७॥
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया ।
समिद्धः शुक्र आहुतः ॥
त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा ।
त्वं भद्रो असि क्रतुः ॥
अग्निर् मूर्धा भुवो यज्ञस्य ॥
पिप्रीहि देवं उशतो यविष्ठ विद्वं ऋतूंर् ऋतुपते यजेह ।
ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं होत्πणाम् अस्य् आयजिष्ठः ॥
अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं हि यज्वा ।
ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥
पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः ।
अग्निर् यज्ञस्य हव्यवाट् ॥
तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।
आचक्रुर् अग्निम् ऊतये ॥
अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।
तपिष्ठैर् अजरो दह ॥
त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः ।
न रिष्येत् त्वावतः सखा ॥
वैश्वानरो न ऊत्या पृष्टो दिवि ॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितानि पर्षि ।
अग्ने अत्रिवन् नमसा गृणानो ऽस्माकं बोध्य् अविता तनूनाम् ॥
अग्ने त्वं पारया नव्यो अस्मान्त् स्वस्तिभिर् अति दुर्गाणि विश्वा ।
पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।
द्युम्नैर् वाजेभिर् आगतम् ॥
अग्नाविष्णू महि धाम प्रियं वां पाथो घृतस्य गुह्यानि नाम ।
दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् उच्चरण्यत् ॥
पावका नः सरस्वती वाजेभिर् वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥
आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥
आ : फ़्न् एमेन्देद्। एद्।: आ।
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
तेषां ते सुम्नम् ईमहे ॥
यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतम् उपतिष्ठन्ता आपः ।
यस्य व्रते पुष्टिपतिर् निविष्टस् तं सरस्वन्तम् अवसे हुवेम ॥
अग्निः प्रत्नेन मन्मना शुम्भानस् तन्वं स्वाम् ।
कविर् विप्रेण वावृधे ॥
सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः ।
सुमृडीको ना आविश ॥
त्वम् अग्ने वीरवद् यशो देवश् च सविता भगः ।
दितिश् च दाति वार्यम् ॥
त्वं भगो ना आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः ।
अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥
प्रेद्धो अग्ने ॥
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अछ ।
प्रति न ईं सुरभीणि व्यन्तु ॥
अग्ना आयूंषि पवसे ऽग्निर् ऋषिः ॥
तं हि शस्वन्ता ईडते स्रुचा देवं घृतश्चुता ।
अग्निं हव्याय वोढवे ॥
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
हव्यवाहं पुरुप्रियम् ॥
अग्ने पावक रोचिषा स नः पावक दीदिवो ऽग्निः शुचिव्रततम उद् अग्ने शुचयस् तव ॥
स हव्यवाड् अमर्त्य उशिग् दूतश् चनोहितः ।
अग्निर् धिया समृण्वति ॥
अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् ।
हव्या देवेषु नो दधत् ॥
किम् इत् ते विष्णो परिचक्ष्यं भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मद् अपगूह एतद् यद् अन्यरूपः समिथे बभूथ ॥
प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः पराके ॥
सुत्रामाणं पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्राम् अनागसम् अस्रवन्तीम् आरुहेमा स्वस्तये ॥
महीम् ऊ षु मातरं सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम ।
तुविक्षत्राम् अजरन्तीम् उरूचीं सुशर्माणम् अदितिं सुप्रणीतिम् ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
सं देवत्रा बभूवथुः ॥
युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् ।