व्रतानां व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥म्स्_४,९।२६॥
शं नो वातो ऽभिवातु शं नस् तपतु सूर्यः ॥
अहानि शं भवन्तु नः शं रात्री प्रतिधीयताम् ॥
पृथिवी शान्तिः सौषधीभिः शान्तिर् अन्तरिक्षं शान्तिस् तद् वायुना शान्तिर् द्यौः शान्तिः सा वृष्ट्या शान्तिर् आपः शान्तिर् ओषधयः शान्तिर् वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिर् ब्राह्मणाः शान्तिः शान्तिः सर्वशान्तिस् त्वयाहं शान्त्या सर्वशान्त्या मह्यं द्विपदे च चतुष्पदे च शान्तिं करोमि शान्तिर् बभूव शान्तिर् असि शान्तिर् नो अस्त्व् अभयं नो अस्तु ॥
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् ।
अपो याताम् अभेषजं ता नः कृण्वन्तु भेषजम् ॥
कया नश् चित्र आभुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥
कस् त्वा सत्यो मदानां मंहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥
अभी षु णः सखीनाम् अविता जरित्πणाम् ।
शतं भवास्य् ऊतिभिः ॥
त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् ।
हुवे नु शक्रं पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥
स्वस्ति ना इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥
यथादित्या अंशुम् आप्याययन्ति यथाक्षितिम् अक्षितयः पिबन्ति ।
एवास्मान् इन्द्रो वरुणो बृहस्पतिर् आप्याययन्तु भुवनस्य गोपाः ॥
उद् वयं तमसस् परि ज्योतिः पश्यन्ता उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
मित्रस्य वश् चक्षुषा समीक्षामहे ॥
मित्रस्य वश् चक्षुषा समीक्षध्वम् ॥