दिशः समित् तां प्रजापतिः समिन्धिष्ट सा प्रजापतिं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥म्स्_४,९।२५॥
अग्ने व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥
वायो व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥
सूर्य व्रतपते व्रतम् अचार्षं तत् ते प्रावोचं तद् अशकं तेनाशकं तेनारात्स्यम् ॥