व्रतानां व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन राध्यासम् ॥म्स्_४,९।२४॥
पृथिवी समित् ताम् अग्निः समिन्धिष्ट साग्निं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥
अन्तरिक्षं समित् तां वायुः समिन्धिष्ट सा वयुं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥
द्यौः समित् ताम् आदित्यः समिन्धिष्ट सादित्यं समिन्धिष्ट ताम् अहं समिन्धिष्ट सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥