दिशः समित् तां प्रजापतिः समिन्द्धे सा प्रजापतिं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥म्स्_४,९।२३॥
अग्ने व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥
वायो व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥
सूर्य व्रतपते व्रतं चरिष्यामि तत् ते प्रब्रवीमि तन् मे गोपाय तञ् शकेयं तेन शकेयं तेन राध्यासम् ॥