इम् इम् इम् स्वर्णज्योतिः ॥म्स्_४,९।२२॥
पृथिवी समित् ताम् अग्निः समिन्द्धे साग्निं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥
अन्तरिक्षं समित् तां वायुः समिन्द्धे सा वायुं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥
द्यौः समित् ताम् आदित्यः समिन्द्धे सादित्यं समिन्द्धे ताम् अहं समिन्धे सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥