१०

तेन वर्धस्व चाप्यायस्व वर्धिषीमहि च वयमा च प्यायिषीमहि च व्य् असौ यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥म्स्_४,९।१०॥
असौ : फ़्न् एमेन्देद्। एद्।: असौ।

रन्तिर् नामासि दिव्यो गन्धर्वस् तस्य ते पद्वद् धविर्धानम् अग्निर् अध्यक्षो रुद्रो अधिपतिर् विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेनान्ववायंस् तद् इन्द्रस्य वै रुद्रो रारहाण आसां परि सूर्यस्य परिधींर् अपोर्णु वीरेभिर् अधि तन् नो गृणानो रजसो विमानो यद् वा घा सत्यम् उत यन् न विद्म ॥

धिय इन्वानो धिय इन् नो अव्यात् ॥

सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अस्मद्रथानाम् ॥

प्रासां गन्धर्वो अमृतानि वोचत् ॥

इन्दुं दक्षं परिददाद् अहीनाम् ॥

वार्षाहरं साम गाय ॥

चिद् असि समुद्रयोनिः ॥

इन्दुर् दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त् सधस्थे ध्रुव आ निषत्तो नमस् ते अस्तु मा मा हिंसीः ॥

सोमपीथानु मेहि ॥

इष्टाहोत्रीयं साम गाय पुनर् ऊर्जा सह रय्येत्य् एके श्यैतं साम गाय ॥

उद् उ त्यं चित्रम् इत्य् एके ॥

वामदेव्यं साम गाय ॥

इमम् उ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् ॥

अग्निर् देवेषु प्र वोच ॥