रात्रिः केतुना जुषतां स्वर्ज्योतिर् जुषतां स्वाहा ॥म्स्_४,९।८॥
दिवि धा इमं यज्ञम् इमं यज्ञं दिवि धाः स्वस्ति घर्माय सवति घर्मपित्वे ॥
विश्वा आशा दक्षिणसद् विश्वान् देवान् अयाड् इह ॥
ॐ श्रावय ॥
अस्तु श्रौषट् ॥
घर्मस्य यज ॥
अश्विना घर्मं पिबतं हार्द्रानुम् अनु मां द्यावापृथिवी अनु मे ऽमंसाताम् इहैव रातयः सन्ति सं यजुर्भिः स्वाहेन्द्राय स्वाहेन्द्राय वट् ॥
स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना घर्मम् अपातम् अश्विना वहद् दिव्याभिर् ऊतिभिः स्वं पेद्रवं यथा वेट् ॥
यथा : फ़्न् एमेन्देद्। एद्।: यथा।
इषे पिपीहि ॥
ऊर्जे पिपीहि ॥
अस्मै ब्रह्मणे पिपीहि ॥
अस्मै क्षत्राय पिपीहि ॥
इष ऊर्जे पिपीहि ॥
सुभूताय पिपीहि ॥
ब्रह्मवर्चसाय पिपीहि ॥
अस्यै विशे मह्यं ज्यैष्ठ्याय पिपीहि ॥
घर्मो ऽसि घर्मम् एम्य् अस्मे ब्रह्माणि धारय ॥
क्षत्रं धारय ॥
विशं धारय ॥
पूष्णे शरसि स्वाहा ॥
ग्रावभ्यः स्वाहा ॥
प्रतिरवेभ्यः स्वाहा ॥
द्यावापृथिवीभ्यां स्वाहा पितृभ्यो घर्मपेभ्यः स्वाहा ॥
रुद्राय रुद्रहोत्रे स्वाहा ॥
हुतं हविर् मधुहविर् असीन्द्रतमे ऽग्नौ स्वाहा ॥
अश्याम ते देव घर्म ऋभूमतो विभूमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतः पितृमतो ऽङ्गिरस्वत उशीमहि त्वा नमस् ते अस्तु मा मा हिंसीः ॥
संसाद्यमानायानुब्रूहि ॥
अह्ने स्वाहा ॥