त्वष्ट्रिमन्तस् त्वा सपेम ॥म्स्_४,९।६॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ॥
अदित्या रास्नासि ॥
इडा एह्य् अदिता एह्य् असाव् एहि सरस्वत्य् एह्य् असाव् एहि ॥
यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि ॥
अदित्या उष्णीषम् असि ॥
पूषा त्वोपावसीदतु ॥
वायुर् अस्य् अश्विभ्यां प्रधापय ॥
घर्माय शङ्क्ष्व ॥
बृहस्पतिष् ट्वोपसीदतु ॥
दानवः स्थ ॥
प्रेरवः स्थ ॥
अश्विभ्यां पिन्वस्व ॥
सरस्वत्यै पिन्वस्वेन्द्राय पिन्वस्वेन्द्राय पिन्वस्व ॥
उप मेहि सहोर्जो भागेन ॥
मधुहविर् असि स्वाहा त्वा वाताय सूर्यस्य रश्मये सिता वृष्टिसनये सञ्जुहोमि स्वाहा ॥
सूर्यस्य : फ़्न् एमेन्देद्। एद्।: सुर्यस्य।
इन्द्राश्विना मधुनः सारघस्य घर्मं पात वसवो यजत्रा वेट् ॥
गायत्रम् असि ॥
त्रैष्टुभम् असि ॥
जागतासि ॥
द्यावापृथिवीभ्यां त्वा परिगृह्णामि ॥
अन्तरिक्षेणोपयछामि ॥
दिविस्पृङ् मा मा हिंसीः ॥
अन्तरिक्षस्पृङ् मा मा हिंसीः ॥
पृथिवीस्पृङ् मा मा हिंसीः ॥