०५

देव घर्म रुचितस् त्वं देवेष्व् आ सुरुचितं मां देवमनुष्येषु कुरु रुचं मयि धेहि रुचिर् असि रुचो ऽसि स यथा त्वं रुच्या रोचस एवम् अहं रुच्या रोचिषीय तवेव मे रोचमानस्य रोचो भूयासुर् ध्राजिर् असि ध्राजो ऽसि स यथा त्वं ध्राज्या ध्राजस एवम् अहं ध्राज्या ध्राजिषीय तवेव मे ध्राजमानस्य ध्राजो भूयासुर् भ्राजिर् असि भ्राजो ऽसि स यथा त्वं भ्राज्या भ्राजस एवम् अहं भ्राज्या भ्राजिषीय तवेव मे भ्राजमानस्य भ्राजो भूयासुः ॥म्स्_४,९।५॥

अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।
स सध्रीचीः स विषूचीर् वसाना आवरीवर्ति भुवनेष्व् अन्तः ॥

गर्भो देवानां जनिता मतीनां मतिः कवीनां पतिः प्रजानां धर्ता क्षत्रस्य ॥

सं देवो देवेन सवित्रा यजत्र सं सूर्येण रोचते ॥

हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ॥

ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यछ ॥

धर्ता दिवो रजसो विभाति धर्ता पृथिव्या धर्तोरोर् अन्तरिक्षस्य धर्ता ॥

देवो देवानाम् अमर्त्यस् तपोजा अप्सु प्रावीः ॥

विश्वासां भुवां पते विश्वस्य भुवनस्पते विश्वस्य मनसस्पते विश्वस्य वचसस्पते विश्वस्य ब्रह्मणस्पते ॥

देवश्रुत् त्वं देव घर्म देवान् पाहि तपोजान् ॥

वाजम् अस्मिन् निधेहि देवायुवम् ॥

मधु माध्वीभ्यां मधु माधूचीभ्यां मधुमान् देववीतये ॥

सम् अग्निर् अग्निनागत सं देवो देवेन सवित्रा यजत्र सं सूर्येणारोचिष्ट स्वाहा ॥

सम् अग्निस् तपसागत सं देवो देवेन सवित्रा यजत्र सं सूर्येणायुक्तायुर्दास् त्वम् अस्मभ्यं घर्म वर्चोदा असि पितासि पिता नो बोधिषीमहि त्वा नमस् ते अस्तु मा मा हिंसीः ॥