रुचितो घर्मः ॥म्स्_४,९।४॥
दश प्राचीर् दश भासि दक्षिणा दश प्रतीचीर् दश भास्य् उदीचीर् दशोर्ध्वा भासि सुमनस्यमानः ॥
सा नः प्रजां पशून् पाह्य् अरणीयमानः ॥
अग्निष् ट्वा वसुभिः पुरस्ताद् रोचयतु स मा रुचितो रोचय ॥
पितरस् त्वा यमराजानः पितृभिर् दक्षिणतो रोचयन्तु स मा रुचितो रोचय ॥
सविता त्वादित्यैः पश्चाद् रोचयतु स मा रुचितो रोचय ॥
मित्रावरुणौ त्वोत्तरतो मरुद्भी रोचयेतां स मा रुचितो रोचय ॥
बृहस्पतिष् ट्वा विश्वैर् देवैर् उपरिष्टाद् रोचयतु स मा रुचितो रोचय ॥