मनोर् अश्वासि भूरिपुत्रा सूपसदना विश्वाभ्यो मा दंष्ट्राभ्यस् पाहि ॥म्स्_४,९।३॥
चिद् असि ॥
स्वाहा मरुद्भ्यः परिश्रयस्व ॥
मासि ॥
प्रमासि ॥
प्रतिमासि ॥
विमासि ॥
सम्मासि ॥
उन्मासि ॥
अन्तरिक्षस्यान्तर्धिर् असि ॥
दिवः सम्पृचस् पाहि ॥
अर्हन् बिभर्षि सायकानि धन्वा ।
अर्हन् निष्कं यजतं विश्वरूपम् ।
अर्हन्न् इदं दयसे विश्वम् आ धन्वा ।
ओजीयो रुद्रस् तद् अस्ति ॥
गायत्रो ऽसि ॥
त्रैष्टुभो ऽसि ॥
जागतम् असि ॥
मधु । मधु । मधु ॥