देवपुरश् चरस ऋध्यासं त्वा ॥म्स्_४,९।१॥
चरस : फ़्न् ⟨ चरसे
नमो वाचे नमो वाचस्पतये या चोदिता या च नोदिता तस्यै वाचे नमो नमा ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्यो मन्त्रपतिभ्यो मा माम् ऋषयो मन्त्रकृतो मन्त्रविदः प्रादुर् दैवीं वाचम् उद्यासं जुष्टां देवेभ्यः स्वधावरीं पितृभ्यो ऽनुमतान् मनुष्येभ्यस् तन् मा देवा अवन्तु शोभायि पितरो ऽनुमदन्तु ॥
गायत्रीं छन्दः प्रपद्ये त्रिष्टुभं छन्दः प्रपद्ये जगतीं छन्दः प्रपद्ये ऽनुष्टुभं छन्दः प्रपद्ये पङ्क्तिं छन्दः प्रपद्ये छन्दांसि छन्दः प्रपद्ये ॥
तानि नो ऽवन्तु तानि नः पालयन्तु तानि सा ऋछतु यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् अग्नीद् रजनरोहिणौ पुरोडाशाव् अधिश्रय प्रतिप्रस्थातर् विहर प्रस्तोतः सामानि गाय ॥
यजुर् युक्तं सामभिर् ऋक्तखन्ता विश्वाभिर् धीभिः सम्भृतं दक्षिणाभिः ।
प्रततं पारयिष्णुं स्तुभो वहन्तु सुमनस्यमानाः ॥
भूर् भुवः स्वर् देवस्य सवितुः प्रसवे बृहस्पतिप्रसूता ॥
बृहस्पतिप्रसूता : फ़्न् ह्, ब्ब्: बृहस्पतिः प्रसूता