१०

यथा वै शालैवं संवत्सरस् तस्य यथा पक्षसी एवं पक्षसी यथा मध्यमो वम्श एवं दिवाकीर्त्यं यथा वा इदं शालायाः पक्षसी मध्यमं वंशम् अभिसमागछन्त्य् एवं वा एतत् संवत्सरस्य पक्षसी दिवाकीर्त्यम् अभिसन्तनोति यथा मध्यमो वम्श एवं दिवाकीर्त्यं यद् एष शिथिरः स्याद् अवशीर्येत यद् एतस्मिन्न् अहन्य् एते ग्रहा गृह्यन्ते ऽह्नो द्रढिम्ने ऽशिथिरत्वाय शुक्राग्रा एतद् अहर् ग्रहा भवन्ति त्रैष्टुभो वै शुक्रस् त्रैष्टुभम् एतद् अहः प्रत्युत्तब्ध्यै सयत्त्वाय सौर्यो ग्रहो गृह्यते सौर्यः पशुर् आलभ्यते ऽसा आदित्य एतद् अहस् तं साक्षाद् ऋध्नोति षड् ग्रहा गृह्यन्ते पशुः सप्तम आलभ्यते सप्त वै शीर्षन् प्राणा असा आदित्यः शिरः शीर्षन् वा एतत् प्राणान् दधातीन्द्रो वै वृत्रम् अहन् स इमं लोकम् अभ्यजयद् अमुं तु लोकं नाभ्यजयत् तं विश्वकर्मा भूत्वाभ्यजयद् यद् वैश्वकर्मणो ग्रहो गृह्यते ऽमुष्य लोकस्याभिजित्यै यन्ति वा एते ऽस्माल् लोकाद् ये वैश्वकर्मणं ग्रहं गृह्णते पराञ्चो हि यन्तीश्वराः प्रमेतोः श्वो भूत आदित्यं गृह्णीरन्न् इयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यो ऽस्याम् अव प्रतितिष्ठन्ति तयोर् अन्यमन्यम् आ परार्धात् पक्षसो गृह्णीरन् विश्वम् अन्येन कर्म कुर्वाणा यन्तीयं वा अदितिर् अस्याम् अन्येन प्रतितिष्ठन्ति ता उभौ सहार्के गृह्णीरन्न् अन्तं गत्वान्तम् एव गत्वोभयोर् लोकयोः प्रतितिष्ठन्त्य् आदित्येनास्मिंल् लोके वैश्वकर्मणेनामुष्मिन् ॥म्स्_४,८।१०॥
प्रतितिष्ठन्ति : फ़्न् एमेन्देद्। एद्।: प्रतितिष्ठन्ति।

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एका इन् मही देवस्य सवितुः परिष्टुतिः ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ॥

अभ्रिर् असि नारिर् असि ॥

उत्तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे ।
उप प्रयन्तु मरुतः सुदानवा इन्द्र प्राशूर् भवा सचा ॥

प्रैतु ब्रह्मणस्पतिः प्र देव्य् एतु सूनृता ।
अछा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥

देवी द्यावापृथिवी अनु मे ऽमंसाथाम् ऋध्यासम् अद्य मखस्य शिरः ॥

मखाय त्वा ॥

मखस्य त्वा शीर्ष्णे देवीर् वम्रीर् अस्य भुवनस्य प्रथमजा ऋतावरीर् ऋध्यासम् अद्य मखस्य शिरः ॥

मखाय त्वा ॥

मखस्य त्वा शीर्ष्णे ॥

इयत्य् अग्र आसीद् अतो देव्य् ऋध्यासम् अद्य मखस्य शिरः ॥

मखाय त्वा ॥

मखस्य त्वा शीर्ष्णे ॥

इन्द्रस्यौजो ऽसि प्रजापते रेतः ॥

ऋध्यासम् अद्य मखस्य शिरः ॥

मखाय त्वा ॥

मखस्य त्वा शीर्ष्णे ॥

मधु त्वा मधुला कृणोतु ॥

मखस्य शिरो ऽसि ॥

यज्ञस्य पदे स्थः ॥

गायत्रो ऽसि ॥

त्रैष्टुभो ऽसि ॥

जागतो ऽसि ॥

मखस्य रास्नासि ॥

सूर्यस्य रसा आश्रयस्व ॥

वृष्णो अश्वस्य निष्पद् असि वृष्णस् त्वाश्वस्य निष्पदा धूपयामसि ॥

वरुणस् त्वा धृतव्रतो धूपयतु मित्रावरुणौ ध्रुवेण धर्मणा ॥

अदितिष् ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्व् अवट देवानां त्वा पत्नीर् देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतु महावीरान् ॥

अर्चिषे त्वा शोचिषे त्वा ज्योतिषे त्वा हरसे त्वा ।
अभीमान् महिना दिवो मित्रो बभूव सप्रथाः ॥

उत श्रवस आ पृथिवीम् ॥

मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥

देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः ।
सुबाहुर् उत शक्त्या ॥

ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा ॥

इदम् अहम् अमुम् आमुष्यायणं तेजसा ब्रह्मवर्चसेन पर्यूहामि ॥

इदम् अहम् अमुम् आमुष्यायाणं विशा क्षत्रेण पर्यूहामि ॥

इदम् अहम् अमुम् आमुष्यायणं प्रजया पशुभिः पर्यूहामि ॥

छृणत्तु त्वा वाक् छृणत्तु त्वोर्क् छृणत्तु त्वा हविः ॥