०९

इति जुहुयाद् इयं वा एतद् यज्ञस्य गृह्णाति यद् आर्छतीयं भूतिर् अस्या एवैनद् अधि मुञ्चति द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इत्य् अभिमृशति होत्रास्व् एवैनत् प्रतिष्ठापयति त्रयस्त्रिंशद् अपो ऽन्वतिषिञ्चत्य् आपो हि यज्ञो यज्ञं वा एतस्य विमथ्नते यस्य पशुं विमथ्नते व्य् अस्य यज्ञश् छिद्यते यद् अवदानं न विन्देत् तद् आज्यस्यावद्येत् सर्वा वा अन्या देवता यातयाम्नीः प्रजापतिर् एवायातयामा प्राजापत्यम् आज्यं प्राजापत्या देवाः प्रजापतिहुतम् एवास्य भवति यदि कामयेत ये पशुं व्यमथिषत त आर्तिम् आर्छेयुर् इति कुविद् अङ्ग यवमन्तो यवं चिद् इति नमौक्तिमत्य ऋचाग्नीध्रे जुहुयान् नमौक्तीर् एवैषां वृङ्क्ते ताजग् आर्तिम् आर्छन्त्य् अथैषाष्टापदी यद् गर्भस्यावद्येद् अवदानान्य् अतिरेचयेद् यन् नावद्येत् प्रोक्षितस्य हविषो नावद्येद् रसेन जुहोत्य् अव प्रोक्षितस्य हविषो द्यति नावदानान्य् अतिरेचयति ॥म्स्_४,८।९॥