यः कामयेत सर्वो मे यज्ञः स्यात् सरसा इति स एतास् तिस्रो वशा आलभेत यज्ञस्य सर्वत्वायाथो सरसत्वाय वैश्वदेवीं मध्यत आलभेत रेतो वा एतन् मध्यतो दधाति मध्यतो हि रेतो ऽनिरुक्तया प्रचरन्त्य् अनिरुकम् इव हि रेतो यातयामं वा एतस्य देवताश् च ब्रह्म च यद् वैश्वदेवी च बार्हस्पत्या च वशे भवतो देवतानां च ब्रह्मणश् चायातयामत्वाय दुग्धानि वा एतस्य छन्दांसि यातयामानि भवन्ति छन्दस्य् एव रसं दधाति बार्हस्पत्याम् अन्तत आलभेत ब्रह्म वै बृहस्पतिर् ब्रह्मणि वा एतद् अन्ततो यज्ञस्य यजमानः प्रतितिष्ठति यद् वै यज्ञः सन्तिष्ठते मित्रो ऽस्य स्विष्टं युवते वरुणो दुरिष्टं यन् मैत्रावरुण्य् अनूबन्ध्या भवति मित्रेण वा एतन् मित्राद् यज्ञस्य स्विष्टं मुञ्चति वरुणेन वरुणाद् दुरिष्टम् उभयत एनं मुक्त्वा यजमानाय प्रयछति यथा वै लाङ्गलेनोर्वरां प्रभिन्दन्त्य् एवम् उक्थामदानि यज्ञं प्रभिन्दन्ति यथा मत्यम् अन्ववास्यत्य् एवम् एषा यज्ञस्य यद् दुष्टुतं यद् दुःशस्तं यद् विलोमं तद् एतया कल्पयति विदेवो वा ईजानः सदेवो ऽनीजान आ ह्य् अनीजाने देवताः शंसन्ते यथा वा अनद्वान् विमुक्तो ऽपक्रामत्य् एवम् ईजानाद् देवता अपक्रामन्ति यद् आग्नेय उदवसानीयो भवत्य् अग्निर् वै सर्वा देवता देवता एव पुनर् आलभते ऽष्टाकपालो भवति गायत्रो ह्य् अग्निर् गायत्रछन्दाः पञ्चकपालः कार्यः पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध यत्र वा अदो ऽग्नौ पुरुषं प्रमीतम् आदधति तद् एनम् अभि सत्यं सर्वा एनम् अन्या देवता जहत्य् अग्निर् एनं देवतानां न जहाति ॥म्स्_४,८।६॥
प्र वा ऋचा ह प्रयछति यजुषा गमयति ग्रहेण स्तोत्राय वा ऋक् शस्त्राय यजुः सम्बद्धे वै स्तोत्रं च शस्त्रं च सम्बद्धे ऋक् च यजुश् चोच्चैर् ऋचा क्रियत उच्चैः साम्नोपांशु यजुषा ते देवा अमन्यन्तेदं यज्ञस्य शिथिरम् इति तत् पुरोरुचम् उपादधुर् अशिथिरत्वाय देवता वै सर्वा आशंसन्ते ग्रहे गृह्यमाणे मह्यं गृह्णाति मह्यं गृह्णातीति यत् पुरोरुग् देवतानां व्यावृत्त्यै ॥
जीवा नाम स्थ ता इमं जीवयत जीविका नाम स्थ ता इमं जीवयत सञ्जीवा नाम स्थ ता इमं सञ्जीवयत ॥
इति यवान् एकविंशतिं दर्भपिञ्जूलानि चावधाय परिब्रूयाद् अथाभिमन्त्रयेत ॥
प्राणापानौ त उपांश्वन्तर्यामौ पातां व्यानं त उपांशुसवनः पातु वाचं त ऐन्द्रवायवः पातु दक्षक्रतु ते मैत्रावरुणः पातु श्रोत्रं त आश्विनः पातु चक्षुषी ते शुक्रामन्थिनौ पाताम् आत्मानं त आग्रायणः पात्व् अङ्गानि त उक्थ्यः पात्व् आयुस् ते ध्रुवः पातु स्तनौ त ऋतुपात्रे पातां मूर्धानं ते द्रोणकलशः पातु कुक्षी ते कलशौ पातां पुष्टपते चक्षुषे चक्षुः स्मने स्मानं वाचे वाचं प्राणाय प्राणं पुनर् देह्य् अस्मै स्वाहा ॥
इति जुहुयाद् एतद् ध स्म वा आह वासिष्ठः सात्यहव्यः पात्रेषु वा अहं तद् ब्राह्मणं वेद यथा पुरुषः सकृदाहृतिम् आहृयते सकृत् त्व् एव कुर्यान् न ततः पुरो यत् पुनः कुर्यात् प्रमीयेत यद्य् अभिचरेद् एतद् एव यजुर् उदित्वाथाभिमन्त्रयेत ॥