पञ्चसवनो वै यज्ञस् त्रीणि सवनान्य् अवभृथो ऽनूबन्ध्या सवनानां पञ्चमी पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध यद् वै यज्ञस्यातिरिच्यते तद् वरुणो गृह्णात्य् अतिरिक्तं वा एतद् यज्ञस्य यद् ऋजीषो ऽधिषवणम् अधिषवणे तस्मात् तेनावभृथम् अभ्यवयन्त्य् अपो ऽभ्यवयन्त्य् आपो हि वरुणः स्थावरा अभ्यवयन्ति ता हि साक्षाद् वरुणो यद् वहन्तीर् अभ्यवेयुः पशून् निर्वहेयुर् अथ यत् स्थावरा अभ्यवयन्ति पशूनाम् अनिर्वाहायापो वै वरुणो वातो वरुणो यद् उदञ्चो ऽवभृथम् अभ्यवेयुर् अभीपतः प्रजा वरुणो गृह्णीयाद् अथ यद् दक्षिणावभृथम् अभ्यवयन्ति यजमानस्य निर्वरुणत्वायोरुं हि राजा वरुणश् चकारेति चात्वालात् प्रयन्तो वदन्त्य् एष वा अपरिपरः पन्था अरक्षस्यो येनासा आदित्य एत्य् अमुष्य वा एतद् आदित्यस्य पथ इति शतं ते राजन् भिषजः सहस्रम् इत्य् अपः परादृश्य वदन्त्य् अपो वा एतद् भूषन्ति पूताभिर् आभिः पूताश् चरन्त्य् एककपाला भवन्ति न वै पुरुषः कपालैर् आप्य एकधैवैनम् आप्नोत्य् अथो एका वा इयम् अस्याम् एव प्रतितिष्ठति तृणं प्रास्य जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाद् अपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एव मृत्योर् उत्सृजत्य् आज्यभागौ यजति यज्ञतायै वरुणं यजति निर्वरुणतायय् अग्नीवरुणौ यजत्य् उभयत एवैनं वरुणान् मुञ्चति नानुयाजान् यजति न संस्थापयन्त्य् अतिरिक्तम् इव हि तन् मन्यन्ते समुद्रे ते हृदयम् अप्स्व् अन्तर् इति सह स्रुचोपमारयति यद् एवात्र क्रूरं क्रियते तञ् शमयत्य् अवभृथ निचुङ्कुणेत्य् अवभृथ एवास्यैष ततो य ऋजीष उत्प्लवते तं भक्षयन्ति सोमपीथम् इव हि तन् मन्यन्ते वरुणो वा ऋजीषो यद् भक्षयेद् वरुणम् आत्मन्य् अञ्जीत तद् आहुर् भक्षयितव्यम् एव पशवो वा ऋजीषः पशून् एवात्मन्य् अङ्क्ता इति विचृत्तो वरुणस्य पाशा इति वरुणपाशम् एव विष्यति प्रत्यस्तो वरुणस्य पाशा इति वरुणपाशम् एव प्रत्यस्यति नमो वरुणस्य पाशायेति वरुणपाशायैव नमो ऽकर् अङ्गिरसो वा उत्तिष्ठतो रक्षांस्य् अनूदतिष्ठंस् तान् वा एतेन बृहस्पतिर् अन्ववैत् तेनैभ्यो रक्षांस्य् अपाहन् यद् एतेनान्ववैति रक्षसाम् अपहत्यै यद् ऊर्ध्वस्तोभं तेन बार्हस्पत्यम् अथ यत् त्रिस्तोभं त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो यज्ञाद् रक्षांस्य् अपहन्ति यद् अतिछन्दसा सर्वाणि वै छन्दांस्य् अतिछन्दाः सर्वैर् वा एतच् छन्दोभिर् यज्ञाद् रक्षांस्य् अपहन्ति यद् आग्नेय्याग्निर् वै सर्वा देवताः सर्वाभिर् वा एतद् देवताभिर् यज्ञाद् रक्षांस्य् अपहन्त्य् अपो ऽभ्यवयन्त्य् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यय् अनपेक्षमाणा आयन्ति वरुणस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव वरुणं निरवदयन्त एधो ऽस्य् एधिषीमहीति निर्वरुणा एव भूत्वैधितुम् उपयन्ति समिद् असि समेधिषीमहीति समिद्ध्या एव ॥म्स्_४,८।५॥