विश्वरूपो वा एतत् त्वाष्ट्रो यज्ञस्य व्यृद्धम् अमन्यत यद् ऋक्सामे व्युह्येते स एतान्य् अपश्यद् यज्ञस्य निष्कृत्यै यद् एवात्र यज्ञस्य व्यृद्धं तस्यैतानि निष्कृत्यै हूयन्ते षड् ऋग्म्याणि भवन्ति षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति त्रीणि यजूंषि त्रीणि वै सवनानि सवनान्य् एवाप्नोति नवैतानि समिष्टयजूंषि जुहोति नवभिर् बहिष्पवमाने स्तुवते तन् नव नव प्राणाः प्राणान् एवात्मन् धत्त ऊर्ध्वस् तिष्ठन् जुहोत्य् ऊर्ध्वो हि तिष्ठन् वीर्यवत्तरो यं द्विष्यात् तस्य तूष्णीं तिष्ठन् जुहुयात् प्राणान् अस्यान्तरेति सन्ततं जुहोति प्राणानां सन्तत्यय् अविछिन्दन् जुहोति प्राणानाम् अविछेदाय यद् विछिन्द्यात् प्राणान् विछिन्द्याद् यं द्विष्यात् तस्य विछिन्द्यात् प्राणान् अस्य विछिनत्ति समानेन विग्राहं जुहोति समाना हीमे प्राणा यज्ञस्य वा एता आणी एतौ वै विश्वामित्रो यज्ञस्याणी अपश्यत् तद् यज्ञस्यैवैता आणी क्रियेते यतो यज्ञ आदीयते तत् पुनर् निधेया इति ह स्माह भरद्वाजो यतो वा एतद् यज्ञ आदीयते तत् पुनर् निधीयते ॥म्स्_४,८।४॥