०३

घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति यज्ञं वा एतद् घ्नन्ति यद् दक्षिणा दीयन्ते यज्ञं वा एतद् दक्षयन्ति तद् दक्षिणानां दक्षिणात्वं यत् तद् दक्षयन्ति स्वर्गो वै लोको माध्यन्दिनं सवनं यन् माध्यन्दिने सवने दक्षिणा दीयन्ते स्वर्गस्य लोकस्याक्रान्त्यै बहु देयं सेतुं वा एतत् कुरुते स्वर्गस्य लोकस्य समष्ट्यै हिरण्यं हस्ते भवत्य् अथ नयति सत्यं वै हिरण्यं सत्येनैवैना नयत्य् अग्रेण गार्हपत्यं जघनेन सदस् ता उदीचीर् उत्सृजन्त्य् अन्तरा चात्वालं चाग्नीध्रं चैतेन वा अङ्गिरसः स्वर्गं लोकम् आयंस् तम् एवैनाः पन्थाम् अपिनयति द्वाभ्यां गार्हपत्ये जुहोतीमां तेनाक्रमत आग्नेय्याग्नीध्रे ऽन्तरिक्षं तेनाथ यद् दक्षिणा दीयन्ते स्वर्गं तेन लोकम् अग्नीधे ऽग्रे ददाति यज्ञमुखं वा अग्नीद् यज्ञमुखम् एव नापाराड् अथो अग्निर् वै सर्वा देवता देवता एवास्य तयाभीष्टाः प्रीता भवन्ति ब्रह्मणे ददाति प्राजापत्यो वै ब्रह्मा प्रजापतिम् एव तया प्रीणात्य् ऋत्विग्भ्यो ददाति होत्रा एव तया प्रीणाति यां सदस्येभ्यो ददाति सोमपीथं तया निष्क्रीणीते याम् आर्षेयाय शुश्रुवुषे ददाति छन्दांसि तया प्रीणाति न हि तस्माद् अर्हन्ति सोमपीथं निष्क्रीयं याम् आर्षेयाय शुश्रुवुषे ददाति देवलोके तया ऋध्नोति याम् अनार्षेयाय शुश्रुवुषे मनुष्यलोके तया याम् अप्रसृप्ताय ददाति वनस्पतयस् तया प्रथन्ते यां याचमानाय ददाति भ्रातृव्यं तया जिन्वति यां भीषा क्षत्रं तया ब्रह्मात्ति यां प्रतिनुदते सा व्याघ्री दक्षिणा यत् तां पुनः प्रतिगृह्णीयाद् व्याघ्र्य् एनं भूता प्रव्लिनीयाद् अन्यया सह प्रतिगृह्या तथा हैनं न प्रव्लिनाति यद् अजं ददात्य् आग्नेयो वा अजो ऽग्नेर् एव तेन प्रियं धामोपैति यद् अविं ददात्य् आव्यन् तेनापजयति यद् गां ददाति वैश्वदेवी गौर् विश्वेषां देवानां तया प्रियं धामोपैति यद् वासो ददाति सर्वदेवत्यं वै वासो देवता एवास्य तेनाभीष्टाः प्रीता भवन्ति यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते यद् अनो वा रथं वा शरीरं तेन यद् धिरण्यं ददात्य् आयुस् तेन वर्षीयः कुरुते यद् अश्वं ददाति प्राजापत्यो वा अश्वः प्रजापतेर् एव तेन प्रियं धामोपैत्य् अथो अमुष्यादित्यस्य लोकं जयत्य् अन्ततः प्रतिहर्त्रे देयं रौद्रो वै प्रतिहर्ता यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रम् अन्ववनयेत् तस्माद् अन्ततः प्रैहर्त्रे देयं स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तम् अत्रिर् अन्वपश्यद् यद् आत्रेयाय हिरण्यं ददाति तम एवापहते ऽथो ज्योतिर् उपरिष्टाद् दधाति स्वर्गस्य लोकस्यानुक्शात्यै ॥म्स्_४,८।३॥
आव्यन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।