०२

अमुष्मिन् वै लोके यजमानो बुभूषत्य् अमुष्य खलु वा आदित्यस्यासौ लोको यत् सौरीभ्यां जुहोत्य् अमुष्मिन् वा एतल् लोके यजमानो भवति द्वाभ्यां जुहोति द्विपाद् यजमानः प्रतिष्ठित्यै हिरण्यम् अवधाय जुहोति हिरण्यज्योतिषम् एवैनं स्वर्गं लोकं गमयति बद्धेन जुहोति दक्षिणानां वा एषो ऽन्वारम्भो द्यां गछ स्वर् गछेत्य् उद्धरति स्वर्गस्य लोकस्य समष्ट्यै रूपं वो रूपेणाभ्येमीति रूपं हिरण्यं रूपं पशवस् तुथो वो विश्ववेदा विभजत्व् इत्य् एष वै तुथो विश्ववेदा यद् अग्निर् एष वै तं वेद यो दक्षिणीयो यो ऽदक्षिणीय एतत् ते अग्ने राध एति सोमच्युतम् इत्य् अग्नीधे वा एतद् दीयते तत् सोमश् च्यावयति तन् मित्रस्य पथा नयेत्य् एष वै मित्रस्य पन्था यद् यज्ञ आग्नेय्याग्नीध्रे जुहोत्य् आग्नेयं ह्य् आग्नीध्रं वारुण्या द्वितीयया यद्य् अनो वा रथो वा दीयते वारुणं हि तद् ऋतस्य पथा प्रेतेत्य् एष वा ऋतस्य पन्था यद् यज्ञश् चन्द्रदक्षिणा इति चन्द्रं हि दीयते ब्राह्मणम् अद्य ऋध्यासं पितृमन्तं पैतृमत्यम् इत्य् एष वै ब्राह्मणः पितृमान् पैतृमत्यो य आर्षेयः शुश्रुवान् सुधातुदक्षिणम् इति सुधात्व् एवास्य यज्ञं दधाति वि स्वः पश्य व्य् अन्तरिक्षम् इत्य् अद एव प्राप्य वदति यतस्व सदस्यैर् इत्य् अरातीयन्ति वा एत एतस्मै ददत ईश्वरा ब्राह्मणाः सोमपाश् चक्षुषापहन्तोस् तान् एव शमयत्य् अस्मद्राता मधुमतीर् देवत्रा गछत प्रदातारम् आविशतेति तथा हैनम् अमुत्रागछन्ति बहुर्मर्या यज्ञकुणपीति ह स्माह यज्ञवचा राजस्तम्बायनः प्र वा इतो मनुष्या दक्षिणाश् च्यावयन्ति नामुत्र गछन्तीति यद् आहानवहायास्मान् देवयानेन पथा सुकृतां लोके सीदत तन् नः संस्कृतम् इति तथा हैनम् इह चामुत्र चागछन्ति ॥म्स्_४,८।२॥
बहुर्मर्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।