०९

इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् इन्द्रवज्रेणाभिनिदधामि ॥ इत्य् अभिनिदध्याद् इन्द्रवज्रेणैवैनम् अभिनिदधाति प्रमायुको भवत्य् अथो द्वादशस्यैवैष मासो ऽवरुद्ध्यै ॥म्स्_४,७।९॥

मनोर् वै पात्राण्य् आसंस् तेषां समाहन्यमानानां यावन्तो ऽसुरा उपाशृण्वंस् तावन्तस् तद् अहर् नाभवन्न् अथ वा एतौ तर्ह्य् असुराणां ब्राह्मणा आस्तां तृष्टावरुत्री ता अब्रुवंश् चिकित्सतं ना इति ता अब्रूतां मनो यज्वा वै श्रद्धादेवो ऽसीमानि नौ पात्राणि देहीति तानि वा आभ्याम् अददात् तान्य् अग्निना समक्षापयतां तान् ज्वालान् ऋषभः समलेट् तं सा मेनिर् अन्वपद्यत तस्य रुवतो यावन्तो ऽसुरा उपाशृण्वंस् तावन्तस् तद् अहर् नाभवंस् ता अब्रूतां मनो यज्वा वै श्रद्धादेवो ऽस्य् अनेन त्व ऋषभेण याजयावेति तेन वा एनम् अयाजयतां तस्य श्रोणिम् अनवत्तां सुपर्ण उदमथ्नात् सा मनाय्या उपस्थम् आपद्यत तां सा मेनिर् अन्वपद्यत तस्या वदन्त्या यावन्तो ऽसुरा उपाशृण्वंस् तावन्तस् तद् अहर् नाभवंस् ता अब्रूतां मनो यज्वा वै श्रद्धादेवो ऽस्य् अनया त्वा पत्न्या याजयावेति तां प्रोक्ष्य पर्यग्निं कृत्वेध्माबर्हिर् अछैतां स इन्द्रो ऽवेद् इमे वै ते असुरमाये मनुं पत्न्या व्यर्धयता इति तम् इन्द्रो ब्राह्मणो ब्रुवाण उपैत् सो ऽब्रवीन् मनो यज्वा वै श्रद्धादेवो ऽसि याजयानि त्वा कतमस् त्वम् असि ब्राह्मणः ॥
मनाय्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

किं ब्राह्मणस्य पितरं किम् उ पृछसि मातरम् ।
श्रुतं चेद् अस्मिन् वेद्यं स पिता स पितामहः ॥

केनेत्य् आभ्यां ब्राह्मणाभ्याम् इतीशे ऽहं ब्राह्मणयोर् इतीशिष हीत्य् अब्रवीद् अतिथिपतिर् वावातिथीनाम् ईष्टा इति स द्वितीयां वेदिम् उद्धन्तुम् उपापद्यत ता इध्माबर्हिर् बिभ्रता ऐतां ता अब्रूतां किम् इदं करोषीतीमं मनुं याजयिष्यामीति केनेति युवाभ्याम् इति ता अवित्ताम् इन्द्रो वावेति तौ न्यस्येध्माबर्हिः पलायेतां तौ यद् अधावतां परस्ताद् एवेन्द्रः प्रत्यौत् ॥
पलायेताम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।