इति ॥म्स्_४,७।८॥
ये देवानां बलपतयस् तेभ्यो दक्षिणार्ध आलभ्यन्ते तस्मात् प्रजा दक्षिणाभिजयन्तीर् यन्ति यद् आग्नेयः सौम्यो बार्हस्पत्यस् ते सार्धम् आलभ्यन्त ओज एवैतत् सन्धीयते यद् आग्नेयश् च बार्हस्पत्यश् च सौम्यम् अभितस् तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णात्य् एकादश वा एतेषां पशूनां देवता मेषी सारस्वती देवतानां द्वादशी यद् एषातिरिच्यते तस्मात् स्त्रियः पुंसो ऽतिरिच्यन्ते ऽथ द्वे एकस्य रशने द्वे एकस्य तस्मात् स्त्रियं जातां परास्यन्ति न पुमांसम् अथ स्त्रिय एवातिरिच्यन्ते यं वा अमुम् इन्द्रो वृत्राय वज्रं प्राहरत् स त्रेधाभवद् यद् अग्रं तेजा आसीत् स स्फ्यो ऽभवद् यन् मध्यं स रथो यज्जघनं स यूपः स्फ्येन परिलिखति रथाक्षेण विमिमीते यूपो भवति वज्र एवैष सम्भ्रियत एतावती वा इयं पृथिवी यावती वेदिर् वज्र एकादशिनी तिरश्चीं मिनोति वज्रेण वा एतद् इमां जयति दक्षिणत उन्नता मेतव्या देवयजनस्य रूपम् अथो वज्रं वा एतद् यजमानो भ्रातृव्यायोञ्श्रयति त्रयो मध्यतः समा मेतव्याः समत्वाय समं हि पशवो ऽनूपतिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति यं कामयेत पितृलोक ऋध्नुयाद् इति तस्योपरसम्मितां मिनुयात् पितृलोक एव ऋध्नोत्य् अथ यं कामयेत मनुष्यलोक ऋध्नुयाद् इति तस्य मध्यसम्मितां मिनुयान् मनुष्यलोक एव ऋध्नोत्य् अथ यं कामयेत देवलोक ऋध्नुयाद् इति तस्य चषालसम्मितां मिनुयाद् देवलोक एव ऋध्नोति तासां वा एषा समृद्धतमा या चषालसम्मिता तस्माच् चषालसम्मिता मेतव्या समृद्धत्वाय यस्य पश्चाद् उपस्थः पुरस्तान् निर्णतं तं मिनुयाद् यं कामयेत भ्रातृव्याय लोकं कुर्याद् यजमानं निर्बाधेतेति भ्रातृव्यायैव लोकं करोति यजमानं निर्बाधते ऽथ यस्य पुरस्ताद् उपस्थः पश्चान् निर्णतं तं मिनुयाद् यं कामयेत यजमानाय लोकं कुर्याद् भ्रातृव्यं निर्बाधेतेति यजमानायैव लोकं करोति भ्रातृव्यं निर्बाधते सर्वे ऽग्निष्ठाः कार्या या अग्निष्ठा अश्रयस् ता अग्निष्ठाः कार्यास् तेन सर्वे ऽग्निष्ठा अथ यद् अग्निष्ठाद् अधि रशना विह्रियन्ते तेन सर्वे ऽग्निष्ठा नाना वा एतेषां पशवो नाना देवता अथ य एष द्वादशो यजमान एवैतस्य पशुर् यद् अस्मै पशुं न निर्दिशेत् तत् प्रमायुको यजमानः स्याद् यं द्विष्यात् तं ब्रूयात् ॥
एवातिरिच्यन्ते : फ़्न् एमेन्देद्। एद्।: एवातिरच्यन्ते
असौ ते पशुः ॥ इति तम् एवास्मै पशुं निर्दिशति प्रमायुको भवति यद्य् अभिचरेत् ॥