०६

प्रजापतिर् वै देवेभ्यो यज्ञान् व्यकल्पयत् सो ऽमन्यतात्मानम् अन्तर् अगाम् इति तेषां वा इन्द्रियाणि वीर्याणि पुनः समबृहत् स षोडश्य् अभवद् अथ वै तर्हीन्द्रो देवानाम् आसीद् अवमतमः शिथिरतमस् तस्मै वा एतं षोडशिनं प्रायछत् तेनेन्द्रो ऽभवत् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतं षोडशिनं गृह्णीते भवत्य् आत्मना परास्य भ्रातृव्यो भवति प्रजापतिर् वै देवेभ्यस् तनूर् व्यकल्पयत् तासां या हरिवत्य् आसीत् ताम् आत्मन्न् अशिंषत् प्रेणा यद् धरिवती पुरोरुग् ग्रहस्य भवति यैवास्य हरिवती प्रिया तनूस् ताम् आप्नोति न षोडसी नाम यज्ञो ऽस्तीत्य् आहुर् अथ कस्मात् षोडशीति यत् स्तोत्रेण च शस्त्रेण च सम्पद्यते तस्मात् षोडशी यज्ञेन वै देवाः स्वर्गं लोकम् आयन् स एषां न प्राभवत् तस्मिन् वा एतं षोडशिनं प्रत्यग्रथ्नंस् तेनामुं लोकं व्याप्नुवंस् तद् अमुष्य वाव लोकस्य व्याप्त्यै षोडशी गृह्यते ऽमुष्य लोकस्य समष्ट्यय् अग्निष्टोमे राजन्यस्य गृह्णीयाद् अशान्त एनं वज्रो भूत्या इन्द्धे ऽतिरात्रे ब्राह्मणस्य वज्रो वै षोडशीश्वरो ऽशान्तो यजमानं हिंसितो रात्रिर् एव वज्रं शमयति प्रातःसवने गृह्यस् तेजो वै प्रातःसवनं तेजस एव वज्रं निर्मिमीते माध्यन्दिने सवने गृह्य ओजो वै माध्यन्दिनं सवनम् ओजस एव वज्रं निर्मिमीते तृतीयसवने गृह्यः पशवो वै तृतीयसवनं पशुभ्य एव वज्रं निर्मिमीते यत् प्रातःसवने गृह्णीयाद् वज्रा उत्तरे सवने अभ्यतिरिच्येत यन् माध्यन्दिने सवने मध्यतो वज्रो निहन्यात् तृतीयसवने गृह्यस् तत् सर्वेषु सवनेषु गृह्णाति न पूर्वे सवने आर्तिं नीतः पञ्चदशः कार्यो वज्रो वै पञ्चदशो वज्रम् एवास्मा आधात् तेन विजितिं भूतिं गछति षोडशी कार्यो यजमानो वै पञ्चदसो वज्रः षोडसी वज्रम् एवास्मा आधात् स एनं भूत्यै श्रेम्ण इन्द्धे सप्तदशः कार्यः प्रजापतिर् वै सप्तदशः प्राजापत्यः षोडशी स्व एवैनं योनौ दधात्य् एकविंशः कार्य एकविंशतिधाम्नी वा अनुष्टुब् आनुष्टुभः षोडश्य् एतद् वा अस्यायतनतमं तस्माद् एकविंशः कार्यो मध्यमे ऽहंस् त्रिरात्रस्य गृह्यो मध्यमं वा अहस् त्रिरात्रस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय चतुर्थे ऽहंश् चतूरात्रस्य गृह्यश् चतुर्थं वा अहश् चतूरात्रस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय चतुर्थेचतुर्थे ऽहन्न् अहीनस्य गृह्यश् चतुर्थञ्चतुर्थं वा अहर् अहीनस्य शिथिरम् अह्नो द्रढिम्ने ऽशिथिरत्वाय न द्विरात्रे ऽवकल्पते द्वे वा एते छन्दसी गायत्रं च त्रैष्टुभं चाछन्दस्कम् अनायतनं गृह्णीते ऽनायतनो यजमानो भवत्य् उत्तरे ऽहन् द्विरात्रस्य गृह्यो रात्रिम् एवायतनम् अभ्यतिरिच्यते ॥म्स्_४,७।६॥
अभ्यतिरिच्येत : फ़्न् एमेन्देद्। एद्।: अभ्यतिरिच्यते