०५

यज्ञेन वै देवाः स्वर्गं लोकम् आयंस् ते ऽमन्यन्तानेन वै नो ऽन्ये लोकम् अन्वारोक्ष्यन्तीति ते छन्दांस्य् अपश्यंस् तानि व्यत्यषजन् स्वर्गस्य लोकस्याननुक्शात्यै यच् छन्दांसि व्यतिषजति लोकं वा एतच् छन्दांसि यजमानो भ्रातृव्यस्य मोहयति स्वर्गस्य लोकस्याननुक्शात्यै देवेषु वा अन्यानि छन्दांस्य् आसन्न् असुरेष्व् अन्यानि कनीयांसि देवेष्व् आसन् ज्यायांस्य् असुरेषु ते देवाः कनीयोभिश् छन्दोभिर् ज्यायांसि छन्दांस्य् असुराणाम् अवृञ्जत यत् कनीयोभिश् छन्दोभिर् ज्यायांसि छन्दांसि विशंसति लोकं वा एतच् छन्दांसि यजमानो भ्रातृव्यस्य वृङ्क्ते लोकम् एनम् अछन्दस्कम् अकर् अनुष्टुभं सर्वाणि छन्दांस्य् अभिसंशंसति वाग् वा अनुष्टुब् आनुष्टुभः पुरुषस् तस्मात् पुरुषः सर्वा वाचो वदति पशवो वै छन्दांसि वाग् अनुष्टुब् आनुष्टुभः पुरुषो यत् सर्वाणि छन्दांसि संशस्यानुष्टुभम् उत्तमां शंसति तस्मात् पुरुष उपरिष्टाद् अवाचः पशून् अत्ति सर्वाणि छन्दांसि संशंसति पजापतिर् वै छन्दांसि प्रजापतिम् एवाप्नोति षड् अक्षराणि स्तोत्राद् अतिरिच्यन्ते षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति ततश् चत्वारि शस्त्रं पुनर् उपावर्तन्ते चतुष्पदस् तेन पशून् अवरुन्द्धे ऽथ द्वे एवातिरिच्येते द्वे विराजम् अति सत्यं चानृतं च विराजम् एवाप्नोति ॥म्स्_४,७।५॥
सर्वाणि : फ़्न् एमेन्देद्। एद्।: सर्वाणि।