उपांशुपात्रेण पात्नीवतं गृह्णाति प्राणो वा उपांशुः प्राणेन वा एतत् प्रयन्ति प्राणेनोद्यन्त्य् अथो प्राणानां प्रतिप्रज्ञात्यय् अथो यत् प्रथमं पात्रं युज्यते तद् उत्तमं विमुच्यते प्राणानां गोपीथाय होता वा अद्य प्रातर् उपांशुम् अयजद् यद् एतं होता वषट्कुर्याद् यत् पुरो ऽकस् तत् पश्चात् परिहरेत् प्रमायुकः स्यात् तस्माद् एतम् अग्नीद् वषट्करोति पुरो ह्य् अग्नीत् प्राणो वा उपांशुः प्राणाद् अधि प्रजाः प्रजायन्ते यद् उपांशुपात्रेण पात्नीवतं गृह्णाति प्रजननायासन्नो हूयते ऽसन्ना हि प्रजाः प्रजायन्ते नानुयजति यद् अनुयजेत् प्रजननम् अपिहन्याद् अथो समानपात्रौ ह्य् एतौ सोमौ गृह्येते तस्मान् नानुयजति मिथुनं वै घृतं च सोमश् च यत् पात्नीवतं घृतेन श्रीणाति मिथुनत्वाय बृहस्पतिसुतस्य ता इति ब्रह्म वै बृहस्पतिर् ब्रह्मणो वै योनेः प्रजापतिः प्रजा असृजत ब्रह्मणो वा एतद् योनेर् यजमानः प्रजायत इन्द इन्द्रियावता इतीन्द्रियं हि गर्भो ऽग्ना३इ पत्नीवा३न् इति मिथुनं वा अग्नीच् च पत्नीश् च सजूस् त्वष्ट्रा सोमं पिबेति त्वष्टा हि रूपाणि विकरोति घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्न् अभि खलु वा एतं घारयन्ति यत् पात्नीवतं घृतेन श्रीणातीन्द्रियेण वा एतत् पत्नी व्यर्धयति तस्मान् निरिन्द्रिया स्त्री पुमान् इन्द्रियवांस् तस्मात् पुमांसः सभां यन्ति न स्त्रियो यद् इतरान्त् सोमाञ् श्रीणीयुर् न पात्नीवतं स्त्रियः सभाम् ईयुर् न पुमाम्स इन्द्रो वै वृत्रम् अहंस् तस्य यन् मूर्धानम् उदरुजत् स द्रोणकलशो ऽभवत् ततो यः सोमः समस्रवत् स हारियोजनस् तस्माद् एतं द्रोणकलशेन जुहोति योनिर् ह्य् अस्यैष इन्द्रो वृत्रं हत्वा तस्य यत् क्लोम्नो हृदयात् सोमं समसिञ्चत् स हारियोजनो ऽभवत् स इन्द्रो ऽमन्यत यद् इमम् असुर्यं सोमं होष्यामि तद् अन्व् असुरा आभविष्यन्ति यन् न होष्यामि तद् अन्व् आभविष्यन्तीति तं संस्थिते प्रहृतेषु परिधिष्व् अजुहोद् यत् संस्थिते प्रहृतेषु परिधिषु जुहोति तत् स्विद् उभयम् अकर् जुहोत्य् अह संस्थिते जुहोत्य् अतिरिक्तो वा एष ऋत्विजां य उन्नेता तस्माद् एतं न वृणते न वषट्करोत्य् अत्य् एष सोमो ऽरेचि स वा उन्नेतारम् एवाभ्यतिरिच्यते ऽध्वर्युर् वै पूर्वान्त् सोमान् जुहोति यद् एतम् अध्वर्युर् जुहुयाद् आहुतीः संसृजेत् समदं कुर्यात् तस्माद् एतम् उन्नेता जुहोति प्रजापतिर् वा एतम् अमन्यत सोमं होष्यंस् तम् अग्निर् अब्रवीन् न मयि त्वम् एतम् असुर्यं सोमं होष्यस्य् अशृतम् अद्वतीयं द्वितीयम् अस्त्व् इति यद् धानाभिः श्रीणाति शृतत्वायाथो द्वितीयत्वायाथैता धाना यत्र वा अदो देवेभ्यः कामदुघाः कामम् अदुह्र तद् एता अपि दुदुह्रे तत् पुष्टिम् एवैताभिर् अवरुन्द्धे प्रजापतिर् वा आग्रायणो यद् एषो ऽतिरिच्यते तस्माद् अयम् अतिरिक्तो ऽपरिमित इमाः प्रजा अभिपवत ऋक्सामे वा इन्द्रस्य हरी तयोः परिधय आधानं निराधानाय खलु वा अश्वाय घासम् अपिदधाति यत् संस्थिते प्रहृतेषु परिधिष्व् अजुहोद् यत् संस्थिते प्रहृतेषु परिधिषु जुहोति निराधानाभ्याम् एवाभ्यां घासम् अपिदधाति पशवो वै धाना यत् सङ्खादेत् पशून् हिंस्याद् यन् न सङ्खादेद् अयताः स्युः सन्दृश्य रय्यै त्वा पोषाय त्वेत्य् उपवपति तत् स्विद् उभयम् अकः पशूनां यत्यै भुञ्जन्त एनं पशवा उपतिष्ठन्ते ॥म्स्_४,७।४॥
आभविष्यन्तीति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
एवाभ्यतिरिच्यते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
दुदुह्रे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।