एते होमा भक्षङ्कारश् च भवन्त्य् एतेषां वै वीर्येण बम्बविश्ववयसा इमांल् लोकान् अर्वाचश् च पराचश् च प्राजानीतां सं ह वा अस्मा इमे लोका अर्वाञ्चश् च पराञ्चश् च भान्ति य एवं वेद सुप्रज्ञाना वा इत इत्थं लोका अमुतस् त्वा अर्वाञ्चो दुःप्रज्ञाना एष ह त्व् एवामुतो ऽर्वाच इमांल् लोकान् प्रजानान्ति यस्यैते हूयन्ते ॥म्स्_४,७।३॥