हृदिस्पृक् क्रतुस्पृग् वर्चोधा असि वर्चो मे धेहि ॥ इति आशिषम् एवाशास्ते ॥म्स्_४,७।२॥
अथैते ऽतिग्राह्या देवा वै सोमम् अगृह्णताथ वा एतान् इन्द्रो ऽगृह्णीत सो ऽवेन् न वा अहम् इमान् ऋते ब्रह्मणः सविष्यामीति स ब्रह्मोपाधावत् तान् ब्रह्मणासघ्नोद् ब्रह्म वै गायत्री तस्माद् गायत्रीभिर् गृह्यन्ते यद् एवादः परम् अन्नाद्यम् अनवरुद्धं तस्यैते ऽवरुद्ध्यै गृह्यन्ते ये वा अमी वैराजस्य स्तोभा अतिरिक्तास् तैर् एते सामन्वन्तः सर्वे वा एत ऐन्द्रा य ऐन्द्र ऐन्द्रः सो ऽसा आदित्य इन्द्रः समानम् अग्निश् चासौ चादित्यो विराजो वै तेज आग्नेयः शक्वरीणाम् ऐन्द्रो रेवतीनां सौर्यो यत्र पृष्ठानि युज्येरंस् तद् एतान् जुहुयात् साम्नां सतेजस्त्वाय सं वा एतद् यज्ञः पश्चात् स्तोत्रेण च शस्त्रेण चाधीयते यद् अतिग्राह्याः प्रत्युत्तब्ध्यै चक्रियौ वा एते यज्ञस्य यत् पृष्ठान्य् उपस्तम्भनम् अतिग्राह्यास् तस्मात् प्रातःसवने गृह्याः प्रत्युत्तब्ध्यै यद् आग्नेयस् तेजस् तेनावरुन्द्धे यद् ऐन्द्र इन्द्रियं तेन यत् सौर्यो रुचं तेन त्रिवृद् वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति तेजो वा अग्निर् इन्द्रियम् इन्द्रो ब्रह्मवर्चसम् असा आदित्यस् तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णाति ॥
अग्नेश् च त्वा ब्रह्मणश् च तेजसा जुहोमि तेजोदां तेजो मा मा हासीन् माहं तेजो हासिषं स्वाहेन्द्रस्य च त्वा क्षत्रस्य चौजसा जुहोम्य् ओजोदाम् ओजो मा मा हासीन् माहम् ओजो हासिषं स्वाहा सूर्यस्य च त्वौषधीनां च वर्चसा जुहोमि वर्चोदां वर्चो मा मा हासीन् माहं वर्चो हासिषं स्वाहाग्न आयुःकारायुष्मांस् त्वं तेजस्वान् देवेष्व् एध्य् आयुष्मन्तं मां तेजस्वन्तं मनुष्येषु कुर्व् इन्द्रौजस्कारौजस्वांस् त्वं सहस्वान् देवेष्व् एध्य् ओजस्वन्तं मां सहस्वन्तं मनुष्येषु कुरु सूर्य भ्राजस्कार भ्राजस्वांस् त्वं वर्चस्वान् देवेष्व् एधि भ्राजस्वन्तं मां वर्चस्वन्तं मनुष्येषु कुरु ॥