०१

गायत्रो वै देवानां सविता गायत्र्या एष लोके सोमो गृह्यते यद् आग्रयणस् तस्माद् आग्रायणात् सावित्रो निर्गृह्यते सो ऽद आ तृतीयात् सवनात् परिशये क्रियमाणस्यक्रियमाणस्य प्रसवायान्तरिक्षं वा अन्तर्यामो ऽन्तरिक्षम् इमाः प्रजा यद् अन्तर्यामपात्रेण सावित्रं गृह्णाति सविता वा एतत् प्रजाः प्रसुवति प्रजननायासन्नो हूयते ऽसन्ना हीमाः प्रजा नेलयन्ति नानुयजति यद् अनुयजेत् सृष्टिं प्रजानां विछिन्द्याद् अथो समानपात्रौ ह्य् एतौ सोमौ गृह्येते तस्मान् नानुयजति देवा वै तृतीयसवनम् उद्यमं नाशक्नुवन् प्रातःसवने तर्हि सवितासीत् तं देवास् तृतीयसवनम् अभिपर्यौहंस् तेन तृतीयसवनम् उदयछन्त यत् सावित्रस् तृतीयसवने गृह्यते सवितृप्रसूता वा एतत् तृतीयं सवनम् उद्यछन्ते सावित्रस्य संस्रवे वैश्वदेवम् अभिगृह्णाति वैश्वदेवीर् इमाः प्रजाः सवितृप्रसूताः खलु वै प्रजाः प्रजायन्ते मनो वै सविता वैश्वदेवीर् इमाः प्रजाः सर्वासु वा एतत् प्रजासु मनो दधात्य् आशीर्मतः सवनस्य गृह्णाति वैश्वदेवत्वाय सुशर्मासि सुप्रतिष्ठान इति यत् स्वित् सोमः सोमे प्रतितिष्ठति बृहदुक्षे नमा इति यद् बृहद् इति तेन देवेभ्यो यन् नमा इति तेन पितृभ्य उक्थभाजो वै पितरो ऽस्तोमभाज उक्थायैष गृह्यते न स्तोत्राय यत्र गृह्यते तञ् शस्यते स्व आयतत्ने ॥म्स्_४,७।१॥
परिशये : फ़्न् एमेन्देद्। एद्।: परिशयेत्
उक्थायैष : फ़्न् एमेन्देद्। एद्।: उकायैष

घृतस्य यजत्य् एष वै प्रथमो धिष्ण्यानां यद् आहवनीयस् तं वा एतद् अग्रे व्याघारयत्य् आग्नावैष्णव्या व्याघारयति पराङ् वा एतर्हि यज्ञो ऽग्निः सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति यत् सौम्यः सोमं वा एतत् सम्भावयन्ति सोमम् आपाययन्त्य् अवधिषुर् वा एतत् सोमं यद् अभ्यसुषुवुर् अनुस्तरणी वा एषा सोमस्य यत् सौम्यः पित्πणाम् अनुस्तरणी तस्मात् पितृमत्या यजति दक्षिणा तिष्ठन् जुहोति दक्षिणा हि पित्πणाम् उपसदां वा एते ऽनुयाजा आग्नावैष्णव्या घृतस्य यजति सौम्या सोमस्य या एवाद उपसत्सु देवता अयाक्षीत् ता एतद् अमुत्र वा एष भूताय क्रियते यद् वा एतस्य व्यार्धि यत् प्रामायि तद् अस्यामुं लोकं गछत्य् अथ पूत एवोञ्शिष्यते पवित्रं वै सौम्यो यजमानम् एवैतेन पुनाति सामदेवत्यो वै सोमः सोमस्य खलु वै सौम्यः साम्ने वा एतद् ध्रियते ॥

सत्रा त एतद् यद् उ त इह ॥ इति परिपश्यति यो ऽगतासुः स परिपश्यति यो गतासुर् न स परिपश्यति यदि न परिपश्येद् अथ वदेत् ॥

यन् मे मनो यमं गतं यद् वा मे अपरागतम् ।
राज्ञा सोमेन तद् वयम् अस्मासु धारयामसि ॥