विवस्वन्न् आदित्यैष ते सोमपीथः ॥ इति सोमपीथेनैवैनं समर्धयति व्यानो वा उपांशुसवनः प्रजा आदित्यो व्यानं वा एतत् प्रजासु दधाति पशवो वा आदित्यो यद् दध्ना मध्यतः श्रीणाति मध्यतो वा एतत् पशूनां पयो दधात्य् अथ यत् तप्तातङ्क्यं तस्माद् आमा सती पक्वं दुहे यदि कामयेत वर्षेत् पर्जन्या इति ॥ या दिव्या वृष्टिस् तया त्वा श्रीणामि ॥ इति दध्नोपरिष्टाद् आदित्यं श्रीणीयात् पशवो वा आदित्यः पशुभ्य एषो ऽमुतो वर्षति पशून् एव वृष्ट्याभिजिघर्ति यदि कामयेत गर्भाः श्रीव्येयुर् इत्य् उद्गृह्यादित्यम् अवेक्षेत गर्भा ह श्रेवुका भवन्ति शुक्रवती वै पूर्वे सवने अशुक्रं तृतीयं सवनं यद् द्विदेवत्यानां संस्रवान् अवनयत्य् आग्रायणम् अभिप्रस्कन्दयति तेन तृतीयसवनं शुक्रवद् देवा असुरान् हत्वा मृत्योर् अबिभयुस् ते नाथैषिणो न्यञ्चनैषिण एता देवता भूयिष्ठाः प्राविशन् यद् द्विदेवत्यांस् तस्माद् द्विदेवत्येभ्य आदित्यो निर्गृह्यते बृहतीभ्यां गृह्णाति पशवो वै बृहतीः प्रजा आदित्य एतावांल् लोको यावद् उद्धतं यत् सम्प्रसारयित्वा गृह्णाति लोकं वा एतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते ऽथो इमा एव प्रजा अन्नाद्यायावरुन्द्धे यद्य् अस्य भ्रातृव्यो यजेत बहिर्वेदि तिष्ठेत् तथा हैनं नावरुन्द्धे पशवो वा आदित्यो ऽग्नी रुद्रो ऽग्नेर् एतास् तन्वो यद् धिष्ण्या यत् सम्प्रसारयित्वा गृह्णाति रुद्राद् वा एतत् पशून् अन्तर्दधात्य् अपिधायोप निष्क्रामति पशूनां गोपीथायादित्यो वै द्विदेवत्यानाम् अनुयाजस् तस्मात् तान् नानुयजति द्विदेवत्या वा आदित्यस्य प्रयाजास् तस्मात् तान् नानुयजति पशवो वा आदित्यो ऽग्नी रुद्रो ब्राह्मण उपद्रष्टा यद् ईक्षमाणो जुहुयात् प्रधीयमानानाम् एषाम् उपद्रष्टा स्याद् अन्यत्रेक्षमाणेन होतव्यम् अनुपद्रष्टैषां भवति ॥म्स्_४,६।९॥
शुक्रवती : फ़्न् एमेन्देद्। एद्।: शुक्रवतीर्
अशुक्रं : फ़्न् एमेन्देद्। एद्।: अशक्रम्। च्फ़्। म्स्।३।८।१०:११०।११।
नाथैषिणो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।