०८

आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् ते वा इतः प्रतिसंहिताः पुरस्ताद् एवान्यत् सर्वं संवत्सरो वै स्वर्गो लोकः संवत्सरम् एतौ कल्पयितुं प्लायेते यद् अध्वर्यू यद् ऐन्द्राग्नम् ऋतुपात्रेण गृह्णाति संवत्सरं वा एतद् अन्वारभते स्वर्गाय लोकायाथो ज्योतिर् उपरिष्टाद् दधाति स्वर्गस्य लोकस्य समष्ट्यय् असौ वा आदित्यः शुक्रः पुरुषो वैश्वदेवो यञ् शुक्रपात्रेण वैश्वदेवं गृह्णाति तस्मात् पुरुष एवामुं प्रत्यक् सर्वे ऽन्ये न्यञ्चः पशवो देवाश् च वा असुराश् चास्पर्धन्त ते देवाः प्रातःसवने वैश्वदेवे यज्ञं संस्थाप्यम् अपश्यंस् तं प्रातःसवने समस्थापयन् यद् वैश्वदेवः प्रातःसवने गृह्यते प्रातःसवने वा एतद् वैश्वदेवे यज्ञं संस्थापयति तेन संस्थितेनारिष्टेन भूतेन प्रचरन्ति देवा वै सर्वे प्रातःसवनम् अभ्यायछन् नोत्तराभ्यां सवनाभ्याम् अतिष्ठन्त यद् वैश्वदेवः प्रातःसवने हूयते प्रातःसवने वा एतद् वैश्वदेवे देवतास् तर्पयन्ति तास् तृप्ता उत्तरे सवने अभिसृज्यमाना यन्ति वज्रो वै मरुत्वतीया वज्र एव प्रथमो ऽपगूर्तिर् द्वितीयः स्तृतिर् उत्तमो वज्रो वै धनुर् धनुर् एव प्रथमः प्रतिहितिर् द्वितीयो विसृष्टस् तृतीयश् चक्रियौ वा एते यज्ञस्य यन् मरुत्वतीया अक्षो मध्यमः पक्षसी अभितो मरुद्भिर् वै वीर्येणेन्द्रो वृत्रम् अहन् न ऋते मरुद्भ्यो ऽशक्नोद् वीर्यं कर्तुं यन् मरुत्वतीयो ग्रहो गृह्यते मरुत्वतीयं शस्यते तेन माध्यन्दिनं सवनं वीर्यवत् कथं सवनान्य् ऋतुमन्ति वेत्थेति पृछेद् ऋतुग्रहैः प्रातःसवनम् ऋतुमन् मरुत्वतीयैर् माध्यन्दिनं सवनं सावित्रेण तृतीयसवनं मरुत्वतीययोः सन्नयोर् दक्षिणा दीयन्ते स्वे वा एतद् योनौ दक्षिणा दीयन्ते परिधयो वा एते यज्ञस्य यन् मरुत्वतीयास् तस्मान् मरुत्वतीयान् दक्षिणा नातिदीयन्ते यद् अतिदद्याद् यथा बहिष्परिधि स्कन्नम् एवं स्याद् यदि कामयेत विड् ओजीयसी स्याद् अबलीयः क्षत्रम् इति यस्या मरुत्वतीयः पूर्वो ऽर्धऋचस् तां पुरोरुचं कुर्याद् विशं वा एतद् ओजीयसीम् अकर् अबलीयः क्षत्रं यदि कामयेत क्षत्रम् ओजीयः स्याद् अबलीयसी विड् इति यस्या ऐन्द्रः पूर्वो ऽर्धऋचस् तां पुरोरुचं कुर्यात् क्षत्रं वा एतद् ओजीयो ऽकर् अबलीयसीं विशं जामि वा एतद् यज्ञे क्रियते यन् मरुत्वतीयो ग्रहो गृह्यते मरुत्वतीयं शस्यते पशवो वै मरुतो ऽजामि पशवस् तेन तद् अजाम्य् ऋतुपात्रम् आलभ्य प्रतिगृह्णात्य् ऋतवो वै मरुतः संवत्सर ऋतव आयुः संवत्सर आयुषि वा एतद् अध्वर्युः श्रयते वृत्रं वा एष हन्ति यो मरुत्वतीयान् ग्रहान् गृह्णीते माहेन्द्रे सर्वे कामाः सर्वान् वा एतत् कामान् आप्नोति सर्वान् व्यश्नोतीन्द्रो वै वृत्रम् अहन् सो ऽन्यान् देवान् अत्यमन्यत स महेन्द्रो ऽभवत् स एतम् उद्धारम् उदहरत वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजते शुक्रपात्रेण माहेन्द्रं गृह्णाति वदन्ति ग्रावाणो वदन्त्य् औलूखला मन्थन्त्य् आशिरम् इन्द्रे वा एतद् अग्रा आगते घोषम् अकुर्वताथो यजमान एव तेजो दधति ॥म्स्_४,६।८॥
वा : फ़्न् एमेन्देद्। एद्।: वा।
वेत्थेति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

एतद् वा एषाभ्यनूक्ता ॥

अष्टौ पुत्रासो अदितेर् ये जातास् तन्वस् परि ।
देवं उप प्रैत् सप्तभिः परा मार्ताण्डम् आस्यत् ॥

इत्य् एष वाव स उपांशुसवनो ग्रावा तस्य वा एष सोमपीथो यद् आदित्यं मेक्षयन्ति ॥