अथैत ऋतुग्रहाः संवत्सरस्य वा एते विधृत्यै गृह्यन्ते द्वादश मासाः संवत्सरस् तस्माद् द्वादश ऋतुग्रहा मधुश् च माधवश् च वासन्तिका ऋतू असन्ना हूयन्ते ऽसन्ना हीम ऋतवो नान्योऽन्यम् अभिप्रपद्यते यद् अन्योऽन्यम् अभिप्रपद्येत ऋता ऋतुर् अभीयाद् अथ यद् अन्योऽन्यः प्रपद्यते तस्माद् इदम् ऋता ऋतुर् अनुनिहिताः परिप्लवन्त उभयतोमुखम् ऋतुपात्रम् उभयतोमुखा हीम ऋतवो न वै तद् विद्म यत ऋतूनां मुखं सह प्रथमं गृह्णाते सहोत्तमं सह युज्येते सह विमुच्येते चतुर्दश वा एतत् कुरुतो ऽति वा एतद् रेचयतो ऽस्ति मासस् त्रयोदशस् तम् एवैतेनाप्त्वावरुन्द्ध ऋतुभ्यो वै प्रजाः प्रजायन्ते यत् षड् ऋतुना चतुर् ऋतुभिर् ऋतुभ्यो वावास्मा एतच् चतुष्पदः पशून् प्रजनयतो ऽथ यच् चतुर् ऋतुभिर् द्विर् ऋतुनर्तुभ्यो वावास्मा एतद् द्विपदः पशून् प्रजनयतो यद् द्विर् ऋतुना द्वौ हीमा ऋतू अथ यद् द्वे ऋतुपात्रे द्वौद्वौ हीम ऋतवो नानुयजति वैश्वानरो वषट्कारो यद् अनुयजेद् वैश्वानरम् ऋतुष्व् अन्ववसृजेद् अन्धो वा इदम् आसीद् अव्यावृत्तम् अहर् आसीन् न रात्रिस् तद् देवा ऋतुग्रहैर् व्यावर्तयन् यद् ऋतुग्रहा गृह्यन्ते ऽहोरात्रयोर् व्यावृत्त्यै संवत्सरो वै स्वर्गो लोकस् तस्य वा एत आक्रमा यद् ऋतुग्रहा यद् ऋतुग्रहा गृह्यन्ते स्वर्गस्य लोकस्याक्रान्त्यै ॥म्स्_४,६।७॥
नान्योऽन्यम् : फ़्न् एमेन्देद्। एद्।: नान्योऽन्यम्
अभिप्रपद्येत : फ़्न् म्। एद्।: अभिप्रपद्यत
अन्योऽन्यः : फ़्न् ह्। अन्द् ब्ब्। एद्।: अन्योऽन्यः