०५

इन्द्राविष्णुभ्यां त्वा इत्य् अछावाकायैवम् अस्य यथोक्थं यथादेवतं गृहीता भवन्ति ॥म्स्_४,६।५॥

आयुर् वै ध्रुवस् तम् उत्तमं गृह्णात्य् उत्तमं ह्य् आयुः स्थाल्या गृह्णात्य् आयुषो धृत्यै पूर्णं गृह्णाति सर्वम् आयुर् एति प्राणो वै गायत्र्य् आयुर् ध्रुवो यद् एष आ तृतीयात् सवनात् परिशये तस्माद् यावद् आयुस् तावान् प्राण आयुर् वै ध्रुवो यद् अग्निष्टोमम् आस्त आयुर् एवाप्त्वा निःसर्पत्य् आयुर् वै ध्रुवो यत् केवलं जुहुयाद् आयुः प्रजानां प्रदध्यात् परिधानीयायां शस्यमानायाम् अवनयति स ह्य् अन्तो होतुश् चमसे ऽवनयति वैश्वदेवो वै होता वैश्वदेवीर् इमाः प्रजाः सर्वासु वा एतत् प्रजास्व् आयुर् दधाति जनानाम् इत्य् आहुः सर्वासां वा एतत् प्रजानाम् आयुः सर्वाभ्यः प्रजाभ्यो गृह्यत उभयतोवैश्वानरो गृह्यत उभयतोवैश्वानरो ह्य् अयं प्राणो ऽयं वाव वैश्वानरो यो ऽयम् अवाङ् प्राणो यद् एष केवला उत्तरे हविर्धाने साद्यते तस्माद् एषो ऽर्धभाक् प्राणानाम् अर्धभाजा इतरे हिरण्ये ऽधि सादयेद् आयुःकामस्यामृतं वै हिरण्यम् आयुर् ध्रुवो ऽमृत एवास्यायुर् दधात्य् उपोप्ते ऽन्ये ग्रहाः साद्यन्ते ऽनुपोप्ते ध्रुवस् तस्माद् अस्थ्नान्ये पशवः प्रतितिष्ठन्ति मांसेन पुरुषः प्राणा वा उपरवा यद् एत उपोप्ते ग्रहाः साद्यन्ते स्वे वा एतद् योनौ साद्यन्ते पूर्वार्धे वा इमे मुखस्य प्राणा एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं तस्माद् दक्षिणे हविर्धाने प्राणा वा एत इतरे ग्रहा आयुर् ध्रुवो नव वै प्राणा आयुर् दशमं तस्माद् एष दशमो गृह्यते दशमं ह्य् आयुर् राजपुत्रो ध्रुवं गोपायति सर्वासां वा एतत् प्रजानाम् आयुर् गोपायति तस्माद् राजपुत्रो वीर्यवत्तमो यद्य् अभिचरेत ॥
परिशये : फ़्न् एमेन्देद्। एद्।: परिशयेत्

इदम् अहम् अमुष्यामुष्यायणस्यायुः प्रवर्तयामि ॥ इति ध्रुवं प्रवर्तयेद् आयुर् एवास्य प्रवर्तयति यत् प्रवर्तयेत् सर्वासां प्रजानाम् आयुः प्रवर्तयेच् छुक् प्रजा ऋछेद् अवर्तिर् यजमानं गृह्णीयात् क्षोधुको ऽध्वर्युः स्यात् तद् व्यङ्ग्य एव ॥

ध्रुवं त्वा ध्रुवक्षितिम् अमुम् आस्थानाच् च्यावयामि ॥ इत्य् आस्थानाद् एवैनं च्यावयति प्रमायुको भवति ध्रुवं वै प्रच्यवमानं विश्वा भूतानु प्रच्यवन्ते प्र यजमान आस्थानाच् च्यवते तद् अभिमृश्यो दिवि दिव्यान् दृंहान्तरिक्षे अन्तरिक्ष्यान् पृथिव्यां पार्थिवान् इति यथास्थाम वा एतत् प्रजा दृंहति स्व आयतने यजमानम् आयुषा वा एष वीर्येण व्यृध्यते यस्य ध्रुवः स्कन्दत्य् आयुर् वीर्यं ध्रुवस् तद् अभिमृश्यः ॥

आयुर्धा असि ध्रुवायुर् मे धेहि ॥ इत्य् आयुर् एवास्मिन् दधाति वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वरः पुत्रसेनस्य ह वै भैमसेने ध्रुव उपददास तं शृण्वानः स्थैरब्रह्मण ऋतेनैभ्यो लोकेभ्य आप्याययाञ्चकार ॥

स्वाहा दिव आप्यायस्व ॥ इति स तृतीयं बभूव ॥

स्वाहान्तरिक्षाद् आप्यायस्व ॥ इति स द्विभागं बभूव ॥

स्वाहा पृथिव्या आप्यायस्व ॥ इति स पुपूरे तद् ऋतेनैवैभ्यो लोकेभ्यो ध्रुव आप्याययितव्यो द्वादशे स्तोत्रे ऽवनयति ॥

द्वादश मासाः संवत्सरः संवत्सरो यज्ञो यज्ञः प्रजापतिः प्राजापत्यः पुरुषो यावान् एव पुरुषस् तस्मिन्न् आयुर् दधाति यत् स्तूयमाने ऽवनयेद् गर्भाः प्रपादुकाः स्युर् यञ् शस्यमाने युवानः प्रमीयेरन् यञ् शस्ते बहिः प्राणान् दध्यात् सकृञ् शस्तायां मध्यतो ऽवनीयो मध्यतो वा एतत् प्रजानाम् आयुर् दधाति ॥

स्वयम्भूर् असि श्रेष्ठो रश्मिः प्रियो देवानां संसदनीयः ॥

तं त्वा सुभव देवा अभिसंविशन्तु ॥

आयुर्धा असि ध्रुवायुर् मे धेहि ॥

इत्य् आयुर् एवास्मिन् दधाति ॥

वर्चोधा असि ध्रुव वर्चो मे धेहि ॥

इति वर्च एवास्मिन् दधाति ॥

इषो ऽसि त्वेषो ऽसि नृम्णो ऽसि व्रतो ऽसि दक्षो ऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य व्रतस्य दक्षस्य भक्षीय स्वस्य चारणस्य च शूद्रस्य चार्यस्य च यथा त्वं सूर्यासि विश्वदर्शत एवम् अहं विश्वदर्शतो भूयासम् ॥