०४

इति पुरोरुचं कुर्याद् रुजति हैवाथो वाग् वै सरमा वाचम् एवैषां वृङ्क्ते सरा वा एषा यज्ञस्य तस्माद् यत् किञ्च प्राचीनम् आग्रायणात् तद् उपांशु चरन्त्य् अथ वा एतद् आग्रायणं प्रति वाचं विसृजन्ते यज्ञम् एवाप्त्वा वचं विसृजन्ते वाग् वै देवेभ्यो ऽपाक्रामत् ते देवास् तूष्णीं यज्ञम् अतन्वत सा वाग् अमन्यतान्तर् वै मा यज्ञाद् यन्तीति साग्रायणं प्रति न्याद्रवत् तस्माद् आग्रायणं प्रति वाचं विसृजन्ते हिङ्कृत्य वाचं विसृजन्ते प्राणो वै हिङ्कारो वाक् प्राणस् तद् वाच एवैष युक्तिस् त्रिर् हिङ्करोति त्रेधा हीयं वाग् वदति शनैर् उच्चैर् अथ सूच्चैर् यावत्य् एव वाक् सास्य युज्यते त्रयो वै प्राजापत्या ऋत्विज उद्गाता प्रस्तोता प्रतिहर्ता ते वा अस्यैतर्ह्य् अवृत्ता अयुक्ता यद् धिङ्करोति तेनैवास्य ते वृत्ता युक्ता भवन्ति वाक् च मनश् चावदेताम् अहं श्रेयान् अस्म्य् अहं श्रेयान् अस्मीति तौ प्रजापतिं प्रश्नम् ऐतां सा वाग् अब्रवीन् नैव मया किं चनानभ्युदितं क्रियता इत्य् अथ मनो ऽब्रवीन् नैव मया किं चनानभिगतं क्रियता इति स मनसे ऽन्वब्रवीत् सा वाग् अब्रवीद् अहव्यवाड् एवाहं तुभ्यम् असानीति तस्माद् एषा प्रजापतये ऽहव्यवाट् तस्माद् यत् किञ्चोपांशु क्रियते तद् आहुः कृतम् एतत् क्रियता इति प्रजापतये हि क्रियते द्वाभ्यां धाराभ्यां प्रातःसवने गृह्णाति तिसृभ्यो माध्यन्दिने सवने चतसृभ्यस् तृतीयसवने तन् नव नव प्राणा आत्माग्रायणः प्राणान् एवात्मन् धत्ते वि वा एतद् यज्ञश् छिद्यते यत् सवनानि सन्तिष्ठन्ते ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थाप्सुक्षितो महिनैकादश स्थेति देवताभिर् वै यज्ञः सन्ततो देवताभिर् एव यज्ञं सन्तनोति प्रजापतिर् वा आग्रायणो यत् सर्वेषु सवनेष्व् अभिप्रस्कन्दयति प्रजापतिर् वा एतत् प्रजा अभिजिघ्रति प्रजापतिर् वा आग्रायणो यत् सर्वेषु सवनेषु गृह्णात्य् आत्मनैव यज्ञं सन्तनोति प्रजापतिर् वा आग्रायणो यद् एषो ऽतिरिच्यते तस्मात् पुरुषः पशूनां दविष्ठम् एत्य् आग्रायणो वै गायत्र्या वत्सरस् तं वा एतद् आ तृतीयात् सवनाद् अभिप्रतिधावति गायत्र्या वा एते लोके सर्वे सोमा गृह्यन्ते तां वा एतत् सर्वाणि सवनान्य् अभिप्रतिधावन्त्य् अथ यत् स्थाल्या गृहीतो विज्ञातस्थाल्या होष्यन्ती३ दारुमयेणा३ इति तस्माद् अविज्ञातेन गर्भेण भ्रूणहाथ यत् स्थालीं रिञ्चन्ति न दारुमयं तस्मात् पुमान् दायादः स्त्र्य् अदायाद् अथ यत् स्थालीं परास्यन्ति न दारुमयं तस्मात् स्त्रियं जातां परास्यन्ति न पुमांसम् अथ स्त्रिय एवातिरिच्यन्ते ॥म्स्_४,६।४॥
सरा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अदायात् : फ़्न् अदायादा?

इन्द्रो वै वृत्राय वज्रम् उदयछत् स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीर् इति तद् वा अस्मै प्रायछद् यज्ञं वा अस्मै तत् प्रायछत् पशून् उक्थ्यम् एव यद् उक्थ्यो गृह्यते यज्ञस्य च पशूनां चावरुद्ध्यय् एतावान् वै यज्ञो यावान् उक्थ्यो ऽन्तःश्लेषणम् एवान्ये ग्रहाः प्लवो वा एष यज्ञस्य यद् उक्थ्यो यथा वा इदं प्लवं सन्नह्य प्रस्नात्य् एवं वा एतद् उक्थ्यम् आलभ्य प्रस्नाति स एनम् आ यज्ञस्योदृचः सम्पारयत्य् अङ्गानि वा उक्थ्यो यज्ञस्य सन्तत्यै गृह्यते तस्मै त्वा विष्णवे त्वेति विष्णुर् वै यज्ञो विष्णुना यज्ञः सन्ततो विष्णुनैव यज्ञेन यज्ञं सन्तनोत्य् एतेन वा इदम् उक्थानि सन्ततानि तस्मात् पुरुषः स्नावभिर् अनुसन्ततः सद आलभ्यावनयति यज्ञं वा एतत् सन्तत्य सम्प्राप्यावनयति चक्षुर् वै शुक्रश् चक्षुर् उक्थ्यश् चक्षुर् वा एतत् पुरस्ताद् ध्रियते ऽथो यथेदं पुरस्तात् पश्चात् पश्यन्न् अन्वेत्य् एवं तद् अथ यद् एकः संस् त्रेधा क्रियते तस्माद् एकः श्रेष्ठः पूर्वार्धे ऽवस्यति यद् एतौ ग्रहौ भूयिष्ठाः सोमा अनु हूयन्ते पापवसीयसस्य व्यावृत्त्यै यद् एतत् पात्रं भूयिष्ठाः सोमा अन्वायन्ति तस्माद् एकं श्रेष्ठं यन्तं बहवः पश्चाद् अनुयन्ति पात्राणि वा अध्वर्युं पुरो विदुह्र उक्थामदानि पश्चैन्द्र्या सदा उपचरत्य् आग्नेय्याग्नीध्रं वैष्णव्या हविर्धानं यथादेवतम् एवैनान्य् उपचरति तथा हैनं न विदुह्रे ऽन्तराहवनीयं च हविर्धानं चाध्वर्योर् लोको ऽन्तरा हविर्धानं च सदश् च यजमानस्य सदः सदस्यानां यदि कामयेताध्वर्युं यश ऋछेद् इत्य् अन्तराहवनीयं च हविर्धानं चावनयेत् सोमो वै यश एषो ऽध्वर्योर् लोको ऽध्वर्युम् एव यशसार्पयति यदि कामयेत यजमानं यश ऋछेद् इत्य् अन्तरा हविर्धानं च सदश् चावनयेत् सोमो वै यश एष यजमानस्य लोको यजमानम् एव यशसार्पयति यदि कामयेत सदस्यान् यश ऋछेद् इत्य् अन्तः सदस्यावनयेत् सोमो वै यश एष सदस्यानां लोकः सदयान् एव यशसार्पयति सद आलभ्यावनयत्य् ऐन्द्रं वै सद ऐन्द्राण्य् उक्थान्य् उक्थानां सन्तत्यय् उक्थानाम् अनपछेदाय ॥
उक्थामदानि : फ़्न् व्Wच्। एद्।: उक्थामदानि।

उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा ॥

इति गृह्णाति प्रातःसवने मैत्रावरुणाय ॥

इन्द्राय त्वा ॥

इति ब्राह्मणाञ्शंसिने ॥

इन्द्राग्निभ्यां त्वा ॥

इत्य् अछावाकाय ॥

उपयामगृहीतो ऽसीन्द्राय त्वेन्द्राय त्वा ॥

इति गृह्णाति सर्वेभ्यो माध्यन्दिने सवने ॥

उपयामगृहीतो ऽसीन्द्रावरुणाभ्यां त्वा ॥

इति गृह्णाति तृतीयसवने मैत्रावरुणाय ॥

इन्द्राबृहस्पतिभ्यां त्वा ॥

इति ब्राह्मणाञ्शंसिने ॥